________________
जैनमेघदूतम् । [चतुर्थः सर्व सर्वकष विषमसौ मन्यतेऽनन्यनेमौं । __ नेमौ नेमौ भवति भवति स्पष्टमाशालतायाः ॥२९॥
हे नाथ! 'असौ' राजीमती 'कर्पू' नदी 'कर्पूमिव' अङ्गारपरिखामिव मन्यते, एतावता शीतलाऽपि नदी तस्या विरहतापप्राधुर्यादङ्गारपरिखापाया भवतीति, सर्वत्रापि विरहतापप्राबल्यमेव हेतुः। तथा 'निवसितं' परिहितं 'सत्' प्रधानं 'दुकूलं क्षौमं 'कुकूलं' तुषानलं मन्यते, 'ग्लावं' चन्द्रं दावम् , 'नलिनं' कमलं 'अलिनं' वृश्चिकं पीडाकृत्त्वात् , वा इवार्थे, 'भूषणं' आभरणं 'ब्यूषणं' त्रिकटु मन्यते इति सर्वत्र सम्बन्धः, यथा त्रिकटु भक्षितं तीव्रत्वाव्यथाद्भवति तथा आभरणमपि विरहेणाप्रियत्वाद्व्यथाकारीति, किं बहुना ? 'सर्व' पुष्पताम्बूलखाद्यस्वाद्यादि सर्वकषविषं मन्यते सर्व कषति हिनस्तीति सर्वकषं सर्वघातकमित्यर्थः । क सति ? 'भवति' त्वयि 'नेमौ' नेमिनाथे 'स्पष्टं' प्रकटम् आशालताया 'नेमौ' चक्रधारायां भवति' जायमाने सति, किंविशिष्टे भवति ? 'अनन्यनेमौ' नान्यानमतीत्येवंशीलस्तस्मिन् , तीर्थङ्कराणां त्रिभुवननम्यत्वादन्यः कोऽपि नम्यो नास्तीति । नेमिरिति नामग्रहणेन त्वां विनाऽन्यः कोऽपि विरहतापे कारणं नास्ति किन्तु त्वमेवेति ज्ञापनार्थम् । सर्वकषेति "कष हिंसायां" सर्व कषतीति "सर्वात्सहश्च” (सि० ५-१-१११) खल्प्रत्ययः, "खित्यनव्ययारुषोर्मोऽन्तो इस्वश्च" (सि०३-२-१११) इति मोऽन्तः । अनन्यनेमाविति “णमं प्रहृत्वे" णम् पाठे नम् , भृशं पुनः पुनर्वा नमति "व्यञ्जनादेकखराद् भृशाभीक्ष्ण्ये यङ्वा' (सि० ३-४-९) यङ्, द्वित्वम् , "मुरन्तोऽनुनासिकस्य" (सि० ४-१-५१) इति मुआगमः, न अन्यं नंनम्यते इत्येवंशील: "सखिचक्रिदधिजज्ञिनेमिः” (सि० ५-२-३९) इति डिप्रत्यये नेमिरिति पदम् । अत्रोपमारूपकसमुख्यातिशयोक्तिदीपकानुप्रासाद्याः ।। २९ ॥