________________
सर्गः। श्रीमन्मेरुतुङ्गसूरिविरचितं अध्यारोप्य द्विरसनसनानन्धमादीनवं मां
दीनां किञ्चिद्दवयसि यदि प्राणितेशोचितं तत् । कौलीनाझं ध्रुवमितरथा लप्स्यसे लोकनाथ !
व्याजानाना ननु तनुमतां नो निहन्त्यर्कजोऽपि ॥३०॥ 'हे प्राणितेश' हे जीवितव्यनाथ ! यदि त्वं मां किञ्चित् ‘आदीनवं' दोषमध्यारोप्य 'दवयसि' परितापयसि तत् 'उचितं' योग्यम्। अयमर्थः- इयं राजीमती अनेन कुरूपकुवादिकुशीलादिदोषेण दुष्टाऽस्ति अतस्त्यज्यते इत्यर्थः । किंरूपमादीनवम् ? 'द्विरसनसनानन्य' द्विरसनैः दुर्जनैः सना सर्वदा नन्धं श्लाघ्यम् , दुर्जना यं दोषमुच्चरन्तस्तिष्ठन्ति । हे लोकनाथ ! 'इतरथा' अन्यथा 'कौली. नाङ्क कोलीनम् अपवादः तदेव अङ्क लाञ्छनं 'लप्स्यसे' प्राप्स्यसि, अनेन निर्दूषणा सती परिणीय त्यक्तेति ध्रुवमनुचित इति । अत्र दृष्टान्तमाह-नन्विति वितर्के, 'व्याजात नाना' व्याज मिषं नाना विना, 'अर्कजोऽपि' यमोऽपि 'तनुमतां' प्राणिनां नो निहन्ति, एतावता यमोऽपि केनचिन्मिषेणैव जन्तून हन्ति, यथाऽस्य ज्वरश्चटितः मूढविसूचिका सन्निपातो वा जातः तेन मृत इति, एवं त्वमपि यदि किञ्चिदूषणं प्रकाश्य मां त्यजसि तदा लोके प्रवाद न लभस इति भावः । अध्यारोप्येति "रुहं जन्मनि" अधिआङ्पूर्वः, अध्यारोहन्तं प्रयुङ्क्ते "प्रयोक्तृव्यापारे णिग्” (सि० ३-४२०) णिग् "लघोरुपान्त्यस्य” ( सि०४-३-४) रो, "रुहः प" (सि०४-२-१४ ) हकारस्य पकारः, अध्यारोपणं पूर्व "प्राकाले" (सि० ५-४-४७) क्त्वाप्रत्ययः, “अनबः क्त्वो यप्” (सि० ३-२-१५४) यप्रत्ययः । दवयसीति दवं ददासीति "णिज्बहुलं नानः०” (सि. ३-४-४२) णिचप्रत्ययः । व्याजान्नानेति "पृथगनाना पञ्चमी च” (सि० २-२-११३) इति पञ्चमी । तनुमतामित्यत्र निपूर्व-हन्तेर्योगे "निप्रेभ्यो नः"(सि०२-२-१५) इतिसूत्रेण कर्मविकल्पात् षष्ठी। अत्रानुप्राससमदृष्टान्तायाः ॥३०॥