________________
१६२
जैनमेघदूतम् ।
नो प्रत्यक्षानुमितिसमयैर्लक्ष्यमाणः प्रमाणैः त्यागं कुर्वन्नसुखमपुषस्तावदुच्चैर्ममेश ! | संस्कारेण स्मृतिमुपगतः क्लेशदेष्टाऽसि यावत् निष्प्रामाण्या स्मृतिरिति गदन्नक्षपादो न दक्षः ॥ ३१ ॥
[ चतुर्थ:
"
I
हे नाथ ! ' अक्षपाद : ' नैयायिकगुरुः न दक्षः, किं कुर्वन् ? स्मृति: 'निष्प्रामाण्या' निर्गतं प्रामाण्यं प्रमाणत्वं यस्याः सा, एतावता स्मरणमप्रमाणमिति ( 'गदन्' ) वदन्, अक्षपादमते हि स्मरणमप्रमाणं कथ्यते । यतस्ते एवमनुमानयन्ति – स्मरणज्ञानमप्रमाणम्, अन्यत्रान्यत्रान्यस्यानुभूयमानत्वात्, विपर्ययज्ञानवत् यथा शुक्तिकाशकले कलधौतमिदमिति ज्ञानमप्रमाणम्, तथा स्वमज्ञानमपि न प्रमाणं कथयन्ति तस्मादेव हेतोः, यतः – “जन्मन्येकत्र भिन्ने वा, तथा कालान्तरेऽपि वा । तद्देशे चान्यदेशे वा, स्वप्नज्ञानस्य गोचरः || १ || ” इति । ततो राजीमती स्मरणस्य प्रामाण्यं स्थापयन्ती तद्दक्षत्वं दूषयति, कथम् ? आह - नो प्रत्यक्षेति 'ईश' हे स्वामिन् ! त्वं प्रत्यक्षानुमितिसमयैः प्रमाणैः त्यागं कुर्वन् लक्ष्यमाणः तावत् 'उच्चैः' अतिशयेन मम 'असुखं' दुःखं 'नो अपुषः' न पुष्टवान्, एतावता किमुक्तं भवति ? यदा पाणिग्रहणार्थं तोरणमागत्य प्रत्यावृत्तः तदा मया गवाक्षस्थितया प्रत्यक्षप्रमाणेन त्यागं कुर्वन् लक्षितः, यदा तु वादित्रेषु वाद्यमानेषु देवदानवमानववृन्दानुगम्यः प्रव्रज्यायै गिरिनारं गतस्तदाऽनुमानप्रमाणेन ज्ञातम् — अथाहं त्यक्तैव, यतो यो यो दीक्षाग्राही स स कान्तापरिहारकारी, निःसङ्गत्वात् यथा वृषभादिः, दीक्षाग्राही चायम्, तस्मात्कान्तापरिहारकार्येवेत्यनुमानम् । अथ यदा सख्यादिपरिजनो वार्ता करोति श्रीनेमिना राजीमत परिहृत्य दीक्षा गृहीता तदाऽऽवचनरूपेण प्रमाणेन त्यागं कुर्वम् रुक्षितः । एतावता प्रत्यक्षानुमानागमप्रमाणैस्त्यागं कुर्वन् शायमानस्त्वं तादृग्दुःखं न दत्तवान् । अप्रेतनमाह – त्वं यावत् 'संस्कारेण