________________
सर्गः ।]
श्रीमन्मेरुतुङ्गसूरिविरचितं
१६३
स्मृतिमुपगतः केशदेष्टाऽसि संस्कारः पूर्वानुभवः तेन यदा स्मर्यसे स्मृतेः संस्कारजत्वात् तदा यावत् क्लेशदेष्टा केशदाताऽसि, वियोगो हि स्मर्यमाणः सन् पूर्वानुभवादपि गाढमन्तः शल्यवद्व्यथते, अतः स्मरणस्य कथमप्रामाण्यम् ? अन्यप्रमाणेभ्यस्तस्य गाढतरदुःखसम्यगनुभवसाधनत्वात्, अतः स्मरणं प्रमाणम्, सम्यग्दुःखानुभवसाधनत्वात्, प्रत्यक्षादिवत् । क्लेशदेष्टेति "दिशत् अतिसर्जने” दिश, क्वेशं दिशतीत्येवंशील: "तृन् शीलधर्मसाधुषु " ( सि० ५२-२१) तृन्प्रत्ययः । अत्र हेतुपर्यायोक्त्यनुप्रासाद्याः ॥ ३१ ॥ क्लेशाविष्टे प्रमुदितमतिर्दीर्घतृष्णे वितृष्णो मूढे मूढेतर परिवृढस्तापिते निर्वृतात्मा । व्यक्तं रक्ते वसति हृदये चेद्विरक्तो ममेशाssधाराधेये तदुपचरिते केन भेदेतरेण १ ॥ ३२ ॥
-
हे नाथ ! 'तत्' तस्मात्कारणात् केन पुरुषेण आधाराधेये 'भेदेतरेण' अभेदेन उपचरिते ?, दक्षा उपचारेण आधाराधेययोरभेदं मन्यन्ते, यथा-मभ्याः क्रोशन्ति, अत्र मध्यानां क्रोशनं न संभवति अचेतनत्वात्, परं मञ्चोपविष्टाः पुरुषाः क्रोशन्ति, उपचारेण पुरुषैः सह मश्वानामभेदं विवक्ष्य मध्वाः क्रोशन्तीत्युच्यते, राजीमती तद्दूषयति — यद् आधाराधेययोरुपचारेणापि अभेदो न युक्तः किन्तु भेद एव, कस्मात् ? तदाह - हे 'ईश' स्वामिन् ! 'चेत्' यदि त्वं मम हृदये वससि क्रमेण हृदयस्य भगवतश्च विशेषणैर्वैसदृश्यमाह — किंरूपे मम हृदये ? 'क्लेशाविष्टे' देशैः दुःखैराविष्टे व्याप्ते । किंरूपस्त्वम्, 'प्रमुदितमतिः' प्रमुदिता प्रकर्षेण मुदिता हर्षमयी मतिः बुद्धिर्यस्य सः । पुनः कथंभूते हृदये ? 'दीर्घतृष्णे' दीर्घा अत्यन्तप्रौढा तृष्णा विषयवाञ्छा यस्मिंस्तत् ( तस्मिन्) त्वं तु ' वितृष्णः ' विगता तृष्णा यस्यासौ, सर्वथाऽपि सांसारिकभोगादिवाञ्छाविरहितत्वात् । पुनः कथंभूते हृदये ?
3
I