________________
जैनमेघदूतम् ।
[चतुर्थ:
'मूढे' कार्याकार्यज्ञानरहिते, त्वं तु 'मूढेतरपरिवृढः' मूढेभ्य इतरे अमूढा दक्षास्तेषां परिवृढः स्वामी । पुनः किंरूपे हृदये? 'तापिते' विरहतापेन प्रज्वलिते, त्वं तु 'निर्वृतात्मा' सर्वदुःखविगमानिवृतः शीतल आत्मा यस्य सः । पुनः किंविशिष्टे हृदये ? 'रक्ते' कामरागव्याप्ते, त्वं तु विरक्तः सामस्त्येन नीरागत्वात् । अतो मम हृदयमाधारः त्वं तु आधेयः, हृदयस्य तव च सर्वप्रकारैः पार्थक्यमेवास्ति, अत उपचारेणापि आधाराधेययोरभेदो न युक्तः किन्तु भेद एव, एतावता निजहृदो बाढं वियोगदुःखं ज्ञापितम् , भगवतश्व परिपूर्णसंतोषसुखमयत्वम् । अत्र विषमपर्यायोक्त्याद्याः॥३२॥
गोत्रस्यादावशकलपुरे चावरं वर्णमग्र्यो__जानवर्णामुपतदमपि त्वं तु नातिष्ठपो माम् ।
शीलं यद्वोन्नतिमत इदं जात्यवर्णानपेक्षं __मेरुर्नाम्ना वहति शिरसा चैतमुनीलचूलः ॥ ३३॥
हे नाथ! त्वं गोत्रस्य' अन्वयस्य 'आदौ' धुरि 'अशकलपुरे च' अशकलपुरं नगरं तत्र च 'अवरं वर्ण' चरमं नीचं वर्ण शूद्रं वर्ण 'अतिष्ठपः' स्थापयसि स्म, 'तु' पुनर्मी 'उपतदमपि' तस्य गोत्रस्य पुरस्य च समीपे न अतिष्ठपः, किंविशिष्टां माम् ? 'अग्र्योजाग्रद्वा' अग्र्यः प्रधानः उत् प्राबल्येन जाग्रत् शोभमानो वर्णः क्षत्रियरूपो यस्याः सा ताम् , एषा तावद्युक्तिर्न यन्नीचो वर्णों वंशस्य नगरस्य च धुरि विनिवेश्यते उत्तमवर्णश्च दूरे क्रियते । अथ मुख्योऽर्थःत्वं गोत्रस्य' नाम्न आदौ 'अवर' वरः प्रधानोऽवरः अप्रशस्यस्तमवरम् अप्रशस्यं 'वणे' अक्षरं नकारलक्षणमतिष्ठपः स्थापिवान् , तथाऽशकले समस्ते पुरे शरीरेऽवरम् अप्रशस्यं वर्ण कृष्णलक्षणं रूपं स्थापितवान् , तु पुनर्माम् उपतदमपि तस्य नान्नः शरीरस्य च समीपे नातिष्ठपः न स्थापितवान् , एतावता नानोऽक्षरैरपि संबन्धो न कृतः शरीरेणापि च संबन्धो न विहितः, किंरूपां माम् ? 'अघ्यो