________________
संर्गः।] ' भीमन्मेरुतुङ्गसूरिविरचितं जाप्रवर्णी अग्र्याः प्रधाना उत् प्राबल्येन जाप्रतः शोभमाना-वर्णा राजीरूपाः प्रशस्ता नानि यस्याः, अथवा जाप्रवर्णो गौरनामा प्रशस्तः शरीरे यस्याः सा ताम् । 'यद्वा' अथवा 'उन्नतिमतः' औनत्यजुषः इदं शीलं सहजम्, किरूपम् ? 'जात्यवर्णानपेक्षं जात्यं उत्तमं वर्ण न अपेक्षते उत्तमवर्णापेक्षारहितमित्यर्थः । अत्र निदर्शनमाह-मेरुः नाना शिरसा च 'एतं' अवरं वर्ण वहति, किंरूपो मेरुः ? 'उन्नीलचूल:' उत् ऊर्ध्व नीला चूला यस्य सः, कोऽर्थः ? मेरुरपि औनत्यशाली वर्तते सोऽपि नाम्न आदौ मकारमप्रशस्तं वर्णमक्षरं शिरसा चाप्रशस्तं चूलास्थितं नीलं वर्ण वहति । उन्नतिः ऊर्ध्वप्रमाणगुरुता उत्कृष्टगुणगुरुता च, अतो महतां चरित्रं न विचार्यमेवेत्युपहासो व्यङ्ग्यः । अत्र विषमश्लेषार्थान्तरन्यासनिदर्शनानुप्रासाद्याः ॥३३॥
आसीदाशेत्समम ! महिषी प्रीतये ते जनिष्ये
श्यामा क्षामा त्वकृषि विधिना प्रत्युतोषोत्प्रदोषा। पश्याम्येवं यदि पुनरजात्मत्वमप्यापयिष्ये
मूलात्कर्मप्रकृतिविकृतीः सर्वतोऽपि प्रकृत्य ॥ ३४ ॥ हे अमम ! मम इति आशा आसीत् अहं 'ते' तव प्रीतये महिषी 'जनिष्ये' भविष्यामि । पूर्व प्रसिद्धतिर्यग्भेदेनैव श्लेषमाहततो महिषी प्रसिद्धा तिर्यग्जातौ प्रत्युतेति पक्षान्तरे 'तु' पुनर् 'विधिना' दैवेन 'श्यामा' कृष्णा 'क्षामा' दुर्बला 'उषा' गौः 'अकृषि' कृता, किंविशिष्टा उषा ? 'उत्प्रदोषा' उद्गताः प्रकृष्टा दोषा यस्याः सा। अथैवं पश्यामि-'यदि पुनः' इति विकल्पान्तरे, अहं विधिना 'अजात्मत्वं' छागिकात्वमपि आपयिष्ये, दैवं मां छागिकामपि करिव्यतीति भावः, किं कृत्वा ? 'मूलात्' आदितः 'सर्वतोऽपि' सर्वैः प्रकारैरपि 'कर्मप्रकृतिविकृतीः प्रकृत्य' प्रारभ्य कर्म वाहदोहादिकं प्रकृतिः तिर्यस्वभावः विकृतिः अज्ञानमोहादिका विकारास्तान , एतावता महिष्यां गवि च याः कर्मप्रकृतिविकृतयोऽभवन