________________
जैनमेघदूतम् । - [चतु। अजस्त्वेऽपि ता एव मूलतः प्रारब्धाः । अथ मुख्यार्थ:-हे अमम ! मम इति आशा आसीत् यदहं 'ते' तव प्रीतये 'महिषी' कृताभि.
का राशी 'जनिष्ये' भविष्यामि, 'तु' पुनरहं 'विधिना' देवेन 'श्यामा' अप्रसूता स्त्री अकृषि कृता, किंरूपा ? 'उषोत्प्रदोषा' उषावत् रात्रिवत् उत्प्रदोषा, रात्रिपक्षे उत् प्रबलः प्रदोषो मुख यस्याः सा “प्रदोषो यामिनीमुखं” (अभि० २-५८) द्वितीयपक्षे पूर्ववदुद्गताः प्रबला दोषा मायादयो यस्यां सा, अपुत्रा हि स्त्री उत्तमकार्येषु नाप्रे क्रियते । अथैवं पश्यामि यदि पुनर् 'अजात्मत्वमपि' सिद्धस्वरूपभावमपि विधिना आपयिष्ये, विधिपरिणामो हि तादृग् दृश्यते यादृशाऽहं सिद्धस्वरूपमपि लप्स्से भवता सर्वथा त्यागात् , निष्पतिसुतानां वनितानां च व्रतकष्टानामेवोचितत्वेन सिद्धत्वोपलब्धेः। किं कृत्वा ? मूलात् आदितः कर्मप्रकृतिविकृती: सर्वतोऽपि सर्वप्रकारैरपि प्रकृति १ स्थित्य २ नुभाग ३ प्रदेश ४लक्षणैरपि प्रकृत्य प्रकर्षेण च्छित्त्वा । कर्मणां प्रकृतयो मुख्यभेदा अष्टौ ज्ञानावरण १ दर्शनावरण २ वेदनीय ३ मोहनीयाऽऽ४ यु ५नाम ६ गोत्रा ७ ऽन्तरायाऽ८ भिधाः । विकृतयस्तु भेदानामपि भेदाः क्रमेण पञ्च-नव-व्य-ष्टाविंशति-चतु-रुयुत्तरशत-द्विपश्चसङ्ख्याः। प्रकृत्येति पूर्व कृग्धातोः प्रयोगः प्रोपसर्गः प्रारम्भार्थः, द्वितीयपक्षे "कृतैत् छेदने" इति धातुः । अत्र श्लेषातिशयोक्तिभाविकानुप्रासाद्याः । तत्र "प्रत्यक्षा इव यद्भावाः, क्रियन्ते भूतभाविनः । तद्भाविकम्” ॥ ३४ ॥ यावजीवं मदुपहितहजीवितेनः शयेन
प्रेम्णा पास्सत्यमृतमपि मे विनमासीत्पुरेति । प्रत्रज्यायाः पुनरभिलपस्तन्मुखेनामुचन्मां
ज्ञानश्रीयुक् तदर्थ कमितोन्मुच्य तां तन्नमोऽस्तु ॥३५॥ हे नाथ ! मया इति 'पुरा' पूर्व विनं' विचारितमासीत् ,