________________
वर्ग: ।]
श्रीमन्मेरुतुङ्गसूरिविरचितं
१६७
इतीति किम् ? 'जीवितेन:' प्राणनाथो यावज्जीवं 'प्रेम्णा' स्नेहेन 'अमृतमपि' पानीयमपि मम 'शयेन' हस्तेन पास्यति, किंविशिष्टः ? 'मदुपहितहत् ' मयि उपहितं न्यस्तं हृत् हृदयं येनासौ । पुनः 'प्रव्रज्यायाः ' दीक्षाया मुखेन 'तत्' अमृतम् अभिलषन् सन् माम् अमुचत्, अमृतं स्यादयाचितम् दीक्षाधारिणो हि अयाचितव्रता भवन्ति । 'अर्थ' अनन्तरं त्वं 'ज्ञानश्रीयुक्' ज्ञानलक्ष्मीयुक्तः सन् 'तां' दीक्षान्मुच्य 'तत्' अमृतं कमिता अमृतं मोक्षं कमिता अभिल षिष्यसि (पिता), अथो दीक्षायाः फलं मोक्षं कामयिष्य से इत्यर्थः । यद्यपि "मोक्षे भवे च सर्वत्र, निःस्पृहो मुनिसत्तमः” इति वचनात् भगवतो मोक्षं प्रत्यपि कामो नास्ति तथापि मोक्षं प्रति प्रवृत्तत्वा
कामो विवक्षितः | 'तत्' तस्मात्कारणात् ते तुभ्यं नमोऽस्तु, अत्रेर्ष्यायां नमः, ईर्ष्याऽपि अनवस्थितत्वाभासज्ञापनात् । अत्र यथासङ्ख्यभाविकपर्यायोक्तदीपकव्याजस्तुतिश्लेषाद्याः । अमृतं पानीयमयाचितव्रतं मोक्षश्चेति श्लेषमूलम् ॥ ३५ ॥
कार्य्योत्पादात्खजनवदनेऽतानि वर्णस्य तुल्यं
कृत्यं चाशाव्रततिनिकरोत्कर्तनान्नाथ ! नाम्नः । अर्थादर्थान्तरमभियता द्राग्यथा चान्वयस्था
सत्कर्मेभप्रमथसमये कारि मा मातुरित्थम् || ३६ |
हे नाथ ! त्वया स्वजनवदने कार्योत्पादात् वर्णस्य तुल्यं कृत्यमतानि, कृष्णस्य भावः कार्ण्य कालिमा स्वजनमुखे तद् उत्पादयता यादृशो निजो वर्णः शरीरसत्कः कृष्णरूपस्तस्य 'तुल्यं' समान ' कृत्यं' कार्य अतानि विस्तारयामासे, एवावता स्वजनमुखानि दुःखेन कृष्णवर्णानि कृतानीत्यर्थः । 'च' अन्यत् हे नाथ ! यथा त्वया आशाव्रतति निकरोत्कर्त्तनात् नान्नस्तुल्यं कृत्यमतानि । अत्र संदेशकथनप्रसक्तत्वात् राजीमती स्वाः एवाशाः विवक्षते, अहं नाथं परिणेष्यामि भोगान् भोक्ष्ये पट्टराज्ञी भविष्यामि इति आशा वा