________________
86
जैनमेघदूतम् ।
[ चतुर्थः
छास्ता एव व्रतत्यो बल्लयस्तासां निकरः समूहस्तस्योत्कर्त्तनं छेदनं तस्मात् नाम्नस्तुल्यं नाम अरिष्टनेमिस्तस्य तुल्यं कार्यमकारि, एतावता यथा चक्रधारा वल्लीश्छिनत्ति तथा त्वया ममाशाश्छिन्नाः । तथा यथा च त्वया 'द्राक्' शीघ्रं 'अर्थात् ' कार्यात् 'अर्थान्तरं ' कार्यान्तरं 'अभियता' गच्छता 'अन्वयस्य' वंशस्य तुल्यं कृत्यमतानि, कोऽर्थः ? परमेश्वरस्य वंशो हरिवंशस्ततो हरिशब्दस्य बह्वर्थेष्वपि प्रवृत्तस्यार्थानुलोम्यात् कपिं विवक्ष्य कथयति — यथा हरिः कपिः एकं कार्य तरुशाखाचटनादिरूपमर्धकृतमेव मुक्त्वा चापल्यतो झटिति अन्यतरुचटनादिकार्य प्रारभते तथा त्वमपि मद्विवाहकार्यमर्धकृतमेव मुक्त्वा संयमरूपं कार्यान्तरं झटिति प्रतिपन्नवान् । हे नाथ ! यथा निजवर्णनामवंशसदृशानि कार्याणि कृतानि इत्थं त्वया असत्कर्मेभप्रमथसमये मातुस्तुल्यं कृत्यं मा कारि, अयं भावः —— परमेश्वरस्य माता शिवा, शिवाशब्देन शृगाली कथ्यते, ततो यथा शृगाली गजान् दृष्ट्वैव पलायते तत्पराजयकथा दूरेऽस्तु, एवं त्वमपि असत्कर्माणि दुष्कर्माणि तान्येव इभा हस्तिनस्तेषां प्रमथो विनाशस्तस्य समये प्रस्तावे मातुस्तुल्यं कृत्यं मा कारीति शिवावन्न नंष्टव्यम् । यदि दीक्षा गृहीता तदा दुष्कर्मकरीन्द्रदलनावसरे शिवासुतवद्भीरुणा न भाव्यं किन्तु सिंहीपुत्रेणेव धीरेण भाव्यम्, सिंहपराक्रमेण चारित्रं प्रतिपाल्यमित्यर्थः, इति सर्ववाचिकान्ते परिणामसुन्दरवाचिकं बाढं दीर्घदर्शित्वं व्यनक्ति । अत्र कार्येति कृष्णस्य भावः कार्ण्यम् “पतिराजान्तगुणाङ्गराजादिभ्यः कर्मणि च" ( सि० ७ - १ - ६० ) व्यण्प्रत्ययः, य इति । अत्र समुचयदीपक श्लेषपर्यायोक्त्यर्थान्तरन्यासाद्याः ॥ ३६ ॥
-
एवं नानावचनरचनाचातुरीमेकतोऽस्या निचैतन्याम्बुदमुखगिरा चान्यतो दूतकर्म । राजीमत्या व्यवसितमिति प्रेक्ष्य सख्यस्तदानीं घिग्धिग्दैवं गतघृणमिति ध्यातवत्योऽभ्यधुस्ताम् ॥३७॥