________________
सर्गः।] श्रीमन्मेरुतुङ्गसूरिविरचितं १६९ ___ 'तदानीं तस्मिन् प्रस्तावे सख्यस्ता 'अभ्यधुः' जल्पन्ति स्म, सख्यः किं कृतवत्यः ? 'गतघृणं' निर्दयं दैवं धिग्धिम् इति 'ध्यातवत्यः' पूर्व ध्यातं यामिस्ताः, किं कृत्वा ? एकतः अस्याः राजीमत्याः ‘एवं' अमुना प्रकारेण 'नानावचनरचनाचातुरी' नानाप्रकारैः अलङ्कारव्यङ्ग्यरसावताररूपैः या वचनानां रचना तस्याश्चातुरी चातुर्य प्रेक्ष्य मनसा विचार्य, 'च' अन्यत् 'अन्यतः' अन्यस्मिन् पक्षे 'निश्चैतन्याम्बुदमुखगिरा' निश्चैतन्यो अचेतनो योऽम्बुदो मेघस्तस्य मुखगिरा मुखवचनेन 'इति' एवंप्रकारं विरहभावोद्दीपकसंदेशश्रेणिगर्भ दूतकर्म 'व्यवसितं' निश्चितं 'प्रेक्ष्य' दृष्ट्वा, एतावता सख्यो राजीमत्यास्तत्तादृशं वचनचातुर्यमचेतनमेघमुखेन दूतकर्म चेति परस्परविरुद्धं प्रेक्ष्य हा ! निर्दयेन दैवेन राजीमत्याः कीदृशी अवस्थाऽऽपातितेति ध्यायन्यस्तां प्रति इति वक्ष्यमाणमजल्पन्नित्यर्थः । अत्र चतुरस्य भावः कर्म वा चातुरी "युवादेरण्” (सि० ७-११६७) अण्प्रत्ययः । अत्रानुप्रासविषमजात्याद्याः ॥ ३७॥
कासौ नेमिर्विषयविमुखस्तत्सुखेच्छुः क वा त्वं ___ कासंज्ञोऽब्दः क पटुवचनैर्वाचिकं वाचनीयम् । कि कस्याने कथयसि सखि ! प्राज्ञचूडामणेर्वा
नो दोषस्ते प्रकृतिविकृतेर्मोह एवात्र मूलम् ॥ ३८ ॥ हे सखि ! असौ नेमिः क ?, किंरूपो नेमिः ? 'विषयविमुखः' विषयेषु विमुखः पराङ्मुखः, वा इति अन्वाचये, त्वं क ?, कथंभूता त्वम् ? 'तत्सुखेच्छुः' तद् विषयसुखमिच्छतीति तत्सुखेच्छुः, अतो द्वयोरपि युवयोर्विपरीतस्वरूपयोः कः संबन्धः ? । 'असंज्ञः' अचेतनः 'अब्दः' मेघः क ?, 'वाचिकं' संदेशवाक्यं क ?, अनयोरपि सम्बन्धाभावः, किंभूतं वाचिकम् ? 'पटुवचनैर्वाचनीयं' पटूनि पटिष्ठानि वचनानि येषामेवंविधैः पुरुषैर्वाचनीयं कथनीयम्। हे सखि ! कस्याने किं कथयसि ?, एतावता दक्षाऽपि सती त्वं