________________
१७०
जैनमेघदूतम् । [चतुर्थः निरर्थकं जल्पसीति । पुनरपि सख्य एव तत्समर्थनमाहुः-'वा' अथवा 'ते' तव नो दोषः, कथंभूतायास्ते ? 'प्राज्ञचूडामणेः' प्राज्ञानां दक्षाणां चूडामणेः शिरोमणेः । 'अत्र' त्वदधिकारे 'प्रकृतिविकृतेः' स्वभावपरावर्तस्य मोह एव मूलम्, अतो मोहस्यैव दोषः । अत्र विषमार्थान्तरन्यासानुप्रासाः ॥ ३८ ॥ श्रीमानेमिय॑जयत महामोहमलं तदेप
त्वां तत्पनी सखि ! मनुमहे बाधते बद्धवैरः। किं त्वेवं ते यदुकुलमणेर्वीरपत्न्या विसोडं
नैतन्याय्यं तदिममधुना बोधशस्त्रेण हिन्द्धि ॥ ३९ ॥ श्रीमान्नेमिर्महामोहमलं 'व्यजयत' जितवान् , हे सखि ! वयमिति ‘मनुमहे' जानीमः 'तत् तस्मात्कारणात् 'एषः' महामोहमल: 'तत्पत्नी' तस्य नेमिनः पत्नीं त्वां 'बाधते' पीडयति, किंरूप एषः ? 'बद्धवैरः' संलग्नविरोधः, अयमर्थः-श्रीनेमिना मोहमहामल्लो जितः, स तस्य पीडां कर्तुं न प्रभवति अतस्तद्वैरं वालयितुं तत्पत्नी बाधत इति । 'किन्तु' पुनः ‘एवं' अमुना प्रकारेण 'ते' तव वीरपल्या 'एतत् तस्य पीडनं 'विसोढुं' मर्षितुं 'न न्याय्यं न युक्तम् , किंरूपायास्ते ? 'यदुकुलमणेः' यदुकुलस्य मणेः रत्नरूपायाः । 'तत् तस्मात्कारणात् त्वमधुना 'इमं महामोहमलं 'बोधशस्त्रेण' प्रतिबो. धायुधेन 'हिन्द्धि' व्यापादय, त्वमपि वीरपत्नी वर्तसे अतः शत्रुपराभवस्तवापि सोढुं न युक्तः, ततः प्रतिबोधं हृदि निधाय महामोहस्त्यज्यतामित्यर्थः । व्यजयतेति "परावेर्जे:” (सि० ३-३२८) इत्यात्मनेपदम् । हिन्दीति "हिंसु तृहप् हिंसायाम्” हिंस्, पञ्चमी हि, "उदितः स्वरानोन्तः” (सि० ४-४-९८) "रुधां स्वराच्छ्नो न लुक् च” (सि० ३-४-८२) प्रत्ययः, न, पूर्वनलोपः, "नास्त्यो क्” (सि० ४-२-९०) भस्याकारलोपः, "हुधुटो हेर्धिः” ( सि०४-२-८३ ) हि धिः "लवर्णतवर्गलसा