________________
सर्गः।] श्रीमन्मेरुतुङ्गसूरिविरचितं १७१ दन्त्याः " इति न्यायात् "तृतीयस्तृतीयचतुर्थे” (सि० १-३-४९) स् त् , ततः संयोगः, "नां धुड्वर्गेऽन्त्योऽपदान्ते" ( सि० १-३३९) तन इति सिद्धम् । अत्रानुमानाक्षेपोदात्तरूपकाद्याः ॥३९॥ रागाम्भोधौ ललितललनाचाटुवाग्भङ्गिभिर्यः
संप्लाव्येत प्रतनुगरिमा स क्षमाद्गणोऽन्यः । औनत्यं तत्तदचलगुरुश्चैष माध्यस्थ्यमीशो
धत्ते येन स्फुटवसुममुं स्पष्टुमप्यक्षमास्ताः ॥४०॥ हे सखि ! स 'क्षमाभृद्गणः क्षमाभृतां ऋषीणां गणः समूहोऽ. न्यः यो 'रागाम्भोधौ' रागसमुद्रे 'ललितललनाचाटुवाग्भङ्गिभिः संप्लाव्येत' ललिताः सुकोमला ललनानां स्त्रीणां याश्चाटुरूपा वाचस्ता एव भङ्गयः कल्लोलास्तैः (ताभिः) सं सामस्त्येन प्लाव्येत स क्षमाभृद्गणोऽन्यः परः, किंरूपः ? 'प्रतनुगरिमा' प्रतनुः तुच्छः गरिमा गुरुत्वं यस्य सः, एतावता यः साधुगणः स्त्रीणां चाटुवचनभिद्यते स तुच्छधर्मस्थैर्यादिगुणगौरववान, अयं नेमिस्तन्मध्ये न भवतीत्यर्थः । अथ सख्योऽन्यतुच्छसाधुविलक्षणं भगवतः स्वरूपमाहुः—'च' अन्यत् एषः 'ईशः' स्वामी ततः सर्वलोकप्रसिद्धं 'औन्नत्यं परमध्यानधैर्यादिगुणोच्छ्रितत्वं तत् 'माध्यस्थ्यं च रागद्वेपरहितत्वं धत्ते। किंरूपो भगवान् ? 'अचलगुरुः' अचला ये ब्रह्मत्रतादिपालने धीरास्तेषां गुरुः । 'येन' औन्नत्येन माध्यस्थ्येन च 'ताः' ललितललनाचाटुवाग्भङ्गयः 'अमुं' भगवन्तं स्पष्टुमपि 'अक्षमाः' असमर्थाः, एतावता ताभिर्भेदनमस्य दूरेऽस्तु ताः स्त्रीचाटुवाचो मनस्यपि नायान्तीत्यर्थः । किंविशिष्टममुम् ? 'स्फुटवसुं' स्फुटतेज. सम् । अथ द्वितीयः श्लिष्टोऽर्थः-यः क्षमाभृतां पर्वतानां गणः समूहः समुद्रकल्लोलैराप्लाव्यते आब्रियते स प्रतनुगरिमा तुच्छोन्नतत्वः अन्यः, यस्य शिखरोपरि कल्लोला वहित्वा यान्ति सोऽन्य इतरः, एष भगवान् 'अचलगुरुः, अचलानां पर्वतानां गुरुः मेरुः,