________________
१७२
जैनमेघदूतम् । [चतुर्थः ततो यथा मेरुः उन्नतत्वं उच्चैस्तरत्वं तच्च माध्यस्थ्यं जगन्मध्यस्थत्वं धत्ते, 'येन' औन्नत्येन माध्यस्थ्येन च ते समुद्रकल्लोलाः 'अमुं' मेरे स्प्रष्टुमपि 'अक्षमाः' असमर्थाः, कल्लोला उत्कृष्टतोऽपि समभूतलात् षोडश( योजन )सहस्रोच्चाः मेरुस्तु लक्षयोजनोचः, वीचयस्तु जगतीपार्श्ववर्तिनः, मेरुस्तु लोकमध्यस्थः, अतस्ता आसन्ना अपि भवितुं न क्षमन्ते इत्यर्थः । मेरुपक्षे स्फुटानि प्रकटानि वसूनि रत्नानि यत्रासौ स्फुटवसुस्तम् । अत्र श्लेषसमासोक्तिरूपकातिशयोक्त्युदात्तानुप्रासाः ॥ ४० ॥ मा विश्वस्या मतिमति! वरप्राक्पदां वर्णिनी तां
रागोत्सृष्टानुपलशकलान् रञ्जयन्तीं निरीक्ष्य । चूर्णो नाम्ना स खलु भगवानेष जात्यं तु वज्रं
नो रागाङ्गैरविकलबले रज्यते जातु कैश्चित् ॥४१॥ 'हे मतिमति' ! मतिः बुद्धिर्विद्यते यस्याः सा मतिमती तस्याः संबोधनं हे मतिमति ! हे बुद्धिशालिनि ! त्वं तां 'वरप्राक्पदा वर्णिनी' वर इति प्राक् पूर्व पदं यस्याः सा ताम, एतावता वरवर्णिनीं हरिद्रां 'रागोत्सृष्टान्' रागरहितान् 'उपलशकलान्' पाषाणखण्डान् रजयन्तीं निरीक्ष्य ‘मा विश्वस्याः' विश्वासं मा कृथाः, कोऽर्थः ? सख्यः कथयन्त्यः सन्ति-हे राजीमति ! तव मनस्येवं भविष्यति, यथाऽन्याऽपि वरवर्णिनी रागरहितान् पाषाणखण्डान् रजयति तथाऽहमपि वरवर्णिनी वर्ते, वरा प्रधाना वर्णिनी स्त्री अतो नीरागमपि नेमिनं रजयिष्यामीति विश्वासं मा कृथाः । कुतः ? तत्कारणमाहुः खलु' निश्चितं 'सः' उपलशकलः पाषाणखण्डो नाम्ना चूर्णः यः पूर्वमपि चूर्ण (र्णः) तस्य किं नाम बलम् ? न किञ्चिदित्यर्थः, 'तु' पुनरेष भगवान् जात्यं 'वज्र' निष्कृत्रिमहीरकः, अतः कैश्चित् 'रागाङ्गैः' रागभावैः 'जातु' कदाचित् नो रज्यते' रागवान् क्रियते, किंरूपैरागाङ्गैः १ 'अविकलबलैः' अविकलं संपूर्ण