________________
सर्गः।] श्रीमन्मेरुतुङ्गसूरिविरचितं १७३ बलं येषां तानि तैः, एतावताऽसौ सर्वत्रोक्तिरचितैरपि हावभावनिग्धवचनादिरागप्रकारै रजयितुं नैव शक्यत इत्यर्थः । यथाऽन्योऽपि हीरकः परपाषाणखण्डवत् रागाङ्गैर्हरिद्रादिभिः प्रचुरैरपि रचयितुं न शक्यते । अत्र श्लेषसमासोक्तिउपमारूपकानुप्रासाद्याः॥ ४१ ॥ सधीचीनां वचनरचनामेवमाकर्ण्य साऽथो
पत्युानादवहितमतिस्तन्मयत्वं तथाऽऽपत् । सङ्ख्याताहैरधिगतमहानन्दसर्वस्वसमा
तसाढ़ेजेऽनुपमिति यथा शाश्वतीं सौख्यलक्ष्मीम् ॥४२॥ 'अथो' अनन्तरं सा 'सध्रीचीनां' सखीनां एवं वचनरचनाम् ‘आकर्ण्य' श्रुत्वा तथा तन्मयत्वं 'आपत्' प्राप्ता । किंरूपा सा? पत्युः ध्यानात् 'अवहितमतिः' अवहिता सावधाना मतिर्यस्याः साऽवहितमतिः । एतावता पिण्डार्थः-राजीमती सखीनां वचनं श्रुत्वा शोकं त्यक्त्वा प्रभोः केवलज्ञानोत्पत्तौ सत्यां स्वामिपार्श्वे व्रतं गृहीत्वा तथा स्वामिनो ध्यानात् 'तन्मयत्वं' स्वामिमयत्वम्, एतावता यथा स्वामी रागद्वेषरहितस्तथा रागद्वेषरहितत्वमापत्, सर्वोऽपि क्रमः परिणामे फलेन श्लाघ्यते, अतः सर्वोत्कृष्टस्य तन्मयत्वस्य फलमाह-'सङ्ख्या०' इति 'यथा' येन प्रकारेण 'तस्मात्' तन्मयत्वात् 'अनुपमिति' उपमानस्याभावो यथा भवति तथा 'शाश्वती' अविनश्वरां सौख्यलक्ष्मी भेजे, किंविशिष्टा सा ? 'सङ्ख्याताहैः' गणितदिनैः 'अधिगतमहानन्दसर्वस्वसद्मा अधिगतं प्राप्तं महानन्दः परमानन्दस्तस्य सर्वस्वं सर्वसमृद्धिस्तस्य सद्म स्थानं मोक्षाभिधानं यया साऽधिगतमहानन्दसर्वस्वसद्मा, अयमर्थः-राजीमती चारित्रं प्रतिपालयन्ती एकं वर्ष छद्मस्थपर्यायं स्थित्वा रागद्वेषमयानि घातिकर्माणि क्षपयित्वा केवलज्ञानं प्राप्य पञ्च वर्षशतानि केवलिपर्याये विहृत्य मुक्तिपदं प्राप्ता सती शाश्वतसौख्यं भजते स्म । अत्र सङ्ख्याताहैरिति सङ्ख्यातानि अहानि सङ्ख्याताहास्तैः "सङ्ख्यातादहश्च वा"