________________
१५०
जैनमेघदूतम् । [चतुर्थः निर्गुणमपि । 'अथो' अनन्तरं 'व्यक्त' दक्षं 'भक्तं' सेवापरं 'इम' मल्लक्षणं जनं 'अर्तिभाज' पीडायुक्तं 'वाचाऽपि' वचनेनापि नो मोद. यसि' हर्षयसि । हे 'प्रसृमरकृप!' प्रसृमरा प्रसरणशीला कृपा यस्य, हे 'छेक!' निपुण! अयं को विवेकः ?, अयमर्थः-वनवासादपरिचिताः स्पष्टज्ञानाभावान्निर्गुणास्तिर्यञ्चः केशं स्फेटयित्वा प्रमोद्यन्ते, असौ निपुणो भक्तो लोकः समीपवर्ती आतॊ वचनेनापि न संतोष्यते,अयं को विचारः ? इत्यर्थः । अत्र विरोधानुप्रासाद्याः॥१७॥ प्रागुद्वाहं स्वजनजनितेनाग्रहेणानुमेने
संचेरेऽन्तर्गुरुपरिजनं पीलुना चोपयन्तुम् । द्वारात्प्रत्यावृतदथ भवान् कूकदसापि शावो
गयेतैवं गुणगणनिधे!नो चतुर्हायणोपि ॥१८॥ हे नाथ! भवान् प्राक् स्वजनजनितेनाऽऽग्रहेण 'उद्वाह' विवाह 'अनुमेने' अभ्युपगतवान् , अन्तर्गुरुपरिजनं पीलुना' हस्तिना 'उपयन्तुं' परिणेतुं ‘संचेरे' चलति स्म, 'अर्थ' अनन्तरं कूकदस्यापि द्वारात् 'प्रत्यावृतत्' पश्चाद्वलति स्म, "सत्कृत्यालङ्कृतां कन्यां यो ददाति स कूकदः।” ( अभि० चिन्ता० ३-१३९) कूकदः श्वशुर इत्यर्थः। हे गुणगणनिधे! एवं 'चतुर्हायणोऽपि' चतुर्वर्षीयोऽपि ( 'शाव:' ) बालकः 'नो गर्येत' नो वञ्च्येत यथाहं वञ्चितेत्यर्थः । संचेरे इत्यत्र "समस्तृतीयया" ( सि० ३-३-३२) इत्यात्मनेपदम्। 'अन्तर्गुरुपरिजनं गुरवः पूज्याः पित्रादिकाः परिजनः परिवारः तेषामन्तर् मध्ये "पारेमध्येऽग्रेऽन्तः षष्ठया वा” (सि०३-१-३०) इति समासः । प्रत्यावृतदित्यत्र "शुद्भूयोऽद्यतन्याम्" ( सि० ३-३-४४) अनेनात्मनेपदनिषेधः । गर्यतेति "गृधौच अभि. काङ्कायाम्" गृधू । चत्वारि हायनानि यस्यासौ चतुर्हायणः "चतुखेायनस्य वयसि” (सि० २-३-७४) नस्य णत्वम् । अत्र दीपकानुप्रासाद्याः ॥ १८ ॥