Book Title: Jain Meghdutam
Author(s): Merutungacharya, Shilratnasuri, Chaturvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 168
________________ १४२ जैनमेघदूतम् । [चतुर्थः (सि० ५-१-१७४ ) क्तप्रत्यय इत्यादि । उदकस्य कुम्भ उदकुम्भः "वैकव्यञ्जने पूर्ये” ( सि० ३-२-१०५) इति उदकस्य उद । अनोपमातिशयोक्तिरूपकानुप्रासाः ॥ ६ ॥ प्राग्निर्दग्धं दिनदिननवत्तीववर्षेजशुष्म प्रख्यासौख्यैर्जगदिनजगजीवनापानपीनम् । सम्प्रत्युष्णोच्छ्वसितवशतो बाष्पधूमायमानं स्फोटं स्फोटं हृदयमिदकं चूर्णखण्डीयते स ॥७॥ हे मेघ ! 'इदकं' हृदयं 'स्फोटं स्फोट' स्फुटित्वा स्फुटित्वा 'चूर्णखण्डीयते स्म' चूर्णखण्डमिवाचरति स्म, किंरूपं हृदयम् ? 'दिनदिननवत्तीववर्षेजशुष्मप्रख्यासौख्यैः प्रानिर्दग्धं दिने दिने नवन्ति नवीनानीवाचरन्तीति तीव्राणि वजानि वर्षात्पन्नानि शुष्मप्रख्यानि शुष्मा अग्निः तत्प्रख्यानि तत्प्रकाराणि असौख्यानि दुःखानि तैः (प्राक्-पूर्व ) निर्दग्धम्, पुनः कथंभूतम् ? 'जगदिन०' जगत इन: स्वामी श्रीनेमीशस्तस्य यजगज्जीवनं आपानं अत्यन्तदर्शनं तेन पीनं उपचितम् , पक्षे जीवनं पानीयं तस्य आ सामस्येन पानम् , पुनः कथंभूतम् ? 'सम्प्रति' अधुना 'उष्णोच्छसितवशतो बाष्पधूमायमानम्' उष्णानि उच्चसितानि तेषां वशतो बाष्पसम्बन्धी धूमस्तमुद्वमत् , अयमर्थः-यथा चूर्णखण्डं पूर्वमग्निना दह्यते पश्चात् पानीयेन सिच्यते ततो बाष्पधूमं वमति ततः स्फुटति, एवमत्रापि यानि भगवत्तोरणपश्चाद्वलनदीक्षाग्रहणान्तरालवर्षसमुत्पन्नानि दिने दिने नवीनान्येव विरहदुःखानि तान्यग्निसदृशानि पश्चादीक्षावसरे भगवतो यदर्शनं तदेव जलं तेन पानम् , अधुना तु उष्णोच्छ्रासा बाष्पधूमतुल्याः। वर्षेज इत्यत्र वर्षे जायन्त इति वर्षेजानि "सप्तम्याः” ( सि. ५-२-१६९) इति डप्रत्ययः, "डित्यन्त्यस्वरादेः" (सि०२-१११४ ) अन्लोपः, “वर्षक्षरवराप्सरःशरोरोमनसो जे” (सि०३२-२६) इति सप्तम्या अलुप् । धूममुद्वमतीति "फेनोमबाष्पधू

Loading...

Page Navigation
1 ... 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205