________________
१४२
जैनमेघदूतम् ।
[चतुर्थः
(सि० ५-१-१७४ ) क्तप्रत्यय इत्यादि । उदकस्य कुम्भ उदकुम्भः "वैकव्यञ्जने पूर्ये” ( सि० ३-२-१०५) इति उदकस्य उद । अनोपमातिशयोक्तिरूपकानुप्रासाः ॥ ६ ॥ प्राग्निर्दग्धं दिनदिननवत्तीववर्षेजशुष्म
प्रख्यासौख्यैर्जगदिनजगजीवनापानपीनम् । सम्प्रत्युष्णोच्छ्वसितवशतो बाष्पधूमायमानं
स्फोटं स्फोटं हृदयमिदकं चूर्णखण्डीयते स ॥७॥ हे मेघ ! 'इदकं' हृदयं 'स्फोटं स्फोट' स्फुटित्वा स्फुटित्वा 'चूर्णखण्डीयते स्म' चूर्णखण्डमिवाचरति स्म, किंरूपं हृदयम् ? 'दिनदिननवत्तीववर्षेजशुष्मप्रख्यासौख्यैः प्रानिर्दग्धं दिने दिने नवन्ति नवीनानीवाचरन्तीति तीव्राणि वजानि वर्षात्पन्नानि शुष्मप्रख्यानि शुष्मा अग्निः तत्प्रख्यानि तत्प्रकाराणि असौख्यानि दुःखानि तैः (प्राक्-पूर्व ) निर्दग्धम्, पुनः कथंभूतम् ? 'जगदिन०' जगत इन: स्वामी श्रीनेमीशस्तस्य यजगज्जीवनं आपानं अत्यन्तदर्शनं तेन पीनं उपचितम् , पक्षे जीवनं पानीयं तस्य आ सामस्येन पानम् , पुनः कथंभूतम् ? 'सम्प्रति' अधुना 'उष्णोच्छसितवशतो बाष्पधूमायमानम्' उष्णानि उच्चसितानि तेषां वशतो बाष्पसम्बन्धी धूमस्तमुद्वमत् , अयमर्थः-यथा चूर्णखण्डं पूर्वमग्निना दह्यते पश्चात् पानीयेन सिच्यते ततो बाष्पधूमं वमति ततः स्फुटति, एवमत्रापि यानि भगवत्तोरणपश्चाद्वलनदीक्षाग्रहणान्तरालवर्षसमुत्पन्नानि दिने दिने नवीनान्येव विरहदुःखानि तान्यग्निसदृशानि पश्चादीक्षावसरे भगवतो यदर्शनं तदेव जलं तेन पानम् , अधुना तु उष्णोच्छ्रासा बाष्पधूमतुल्याः। वर्षेज इत्यत्र वर्षे जायन्त इति वर्षेजानि "सप्तम्याः” ( सि. ५-२-१६९) इति डप्रत्ययः, "डित्यन्त्यस्वरादेः" (सि०२-१११४ ) अन्लोपः, “वर्षक्षरवराप्सरःशरोरोमनसो जे” (सि०३२-२६) इति सप्तम्या अलुप् । धूममुद्वमतीति "फेनोमबाष्पधू