________________
सर्गः।
श्रीमन्मेरुतुङ्गसूरिविरचितं
१४१ गाढदुःखितां सखी विरहार्तिविस्मारणार्थ सजति तावत् सख्यः 'किञ्चिच्छलं' जलसेचनादिकं कृत्वा तां वराकी ( 'अलं' अत्यर्थ) अपासारयन् ,उत्प्रेक्ष्यते-'परपरिचिते: अन्यपरिचयस्य मत्सरेणेव, अग्रेतना हि सख्यः परपरिचयं न क्षमन्ते इति । एतावता श्रीनेमिनं गच्छन्तं दृष्ट्वा मम विरहदुःखान्मूर्छा समेता, ततः सखीभिः जलसेचनाद्युपचारैमूर्छा वालितेति । अत्रोत्प्रेक्षानुप्रासोपमाद्याः॥५॥ त्यतैवातः परमचिकिलक्लिन्नवासोवदेषा
हा कि भावि ? स्फुटसि हृदय द्वैधमापद्य किंन । ईदृचिन्ताकुलतममनस्तापबाष्पायितास्यो
द्यातासाम्बुव्यंजनिषि ततोऽस्तोकशोकोदकुम्भः॥ ६॥ हे मेघ ! 'ततः' तदनन्तरं अहं 'अस्तोकशोकोदकुम्भः व्यजनिषि' अस्तोको बहुलः शोकस्तदेव उदकं तस्य कुम्भः उदकुम्भः पानीयकुम्भरूपा जाता । किंरूपाऽहम् ? 'ईदृचिन्ता०' ईग् वक्ष्यमाणा या चिन्ता तयाऽऽकुलतमं अत्याकुलं यन्मनस्तस्य तापेन बाष्पान् उष्णनिःश्वासरूपान् उद्वान्तं यद् आस्यं मुखं तत्रोद्यातानि प्रवाहेण व्यूढानि अस्राम्बूनि अश्रुजलानि यस्याः सा ईदृक्षा । 'एषा' अहं अतः परं 'अचिकिलक्लिन्नवासोवत्' त्यक्तव, अचिकिलः कर्दमस्तेन क्लिन्नं आर्द्र यद्वासो वस्त्रं तद्वत् । यावद्भगवान् गृहस्थ आसीत्तावदाशाऽभूत् यद् अद्य स्वीकरिष्यति कल्ये वा, अतः परं तु दीक्षितेन भगवताऽहं त्यक्तैव । 'हा' इति खेदे, किं भावि ?, हे हृदय ! 'द्वैधं द्विधात्वं 'आपद्य' प्राप्य किं न 'स्फुटसि विदीर्यसे ?। द्वौ प्रकारौ द्वैधम् "द्वित्रेमधौ वा” (सि० ७-२-१०७) इति धमप्रत्ययः, "वृद्धिः खरेष्वा०" (सि० ७-४-१)। बाष्पमुद्वान्तं बाष्पायितम् “फेनोष्मबाष्पधूमादुद्वमने" ( सि० ३-४-३३ ) क्यप्रत्ययः, “दीर्घश्वियङ्यक्क्येषु०” (सि० ४-३-१०८) दीर्घः, बाष्पायते स्म बाष्पायितं "क्तक्तवतू"