________________
. जैनमेघदूतम् । [चतुर्थः देवन्यू : 'सर्वतः' सर्वपार्वेषु 'समनुचरितः सम् सामस्त्येन अनुचरितः अनुगतः, किंरूपैर्देवव्यूहैः ?' मागधद्भिः' मागधैरिव आचरद्भिः । 'ज्ञातेयेषु' स्वजनेषु 'प्रसृतमतिभिः' प्रसृता विस्तृता मतिः बुद्धिर्येषां ते प्रसृतमतयो वृद्धा इत्यर्थः, तैः 'साश्रुभिः' क्षरदश्रुनेत्रैः दृश्या मूर्तिर्यस्य सः। क सति ? 'दिव्यातोये' दिव्यवादित्रे 'निनदति' शब्दायमाने सति । किंविशिष्टो नेमिः ? 'भूषिताङ्गः' स्पष्टम् । क इव ? रविरिव यथा 'नीरजिन्या' कमलिन्या रविः श्रीसूर्यः ‘वनात्' वनमाश्रित्य काननं गच्छन् दृश्यते, वनं पानीयं तदाश्रित्य तत्र स्थितयेत्यर्थः, सूर्योऽपि अधो गच्छन् वनं प्रविशन् दृश्यते, अथवा कस्य पानीयस्य आननं मुखम् , सायं पश्चिमाम्भोधौ रविनिमजतीति रूढिः । क्षेमकरेति क्षेमं करोतीति "क्षेमप्रियमद्रभद्रात् खाण्" (सि०५-१-१०५) इति अण्प्रत्यये "खित्यनव्ययारुषोर्मोऽन्तो हस्वश्च” ( सि० ३-२-१११) इति मोऽन्ते क्षेमङ्करेति पदम् । मागधा इवाचरन्तीति "कर्तुः क्विप्०” ( सि० ३-४-२५) किपि शतरि भिसि मागधद्धिरिति । ज्ञातेयेषु ज्ञातयः स्वजनाः, ज्ञातेरपत्यानि ज्ञातेयाः "इतोऽनियः" (सि० ६-१-७२) इति एयण् । दिव्यातोघे इति जातावेकवचनम् । वनात् गवाक्षादिति "गम्ययपः कर्माधारे" ( सि० २-२-७४ ) इति पञ्चमी । अत्र परिकरोत्प्रक्षोपमानुप्रासाः ॥ ३-४ ॥ सद्योमाद्यद्विषमविरहाबाधविसारिणी मां
मूर्छाऽतुच्छाऽसजदसुपरिभ्रंशभीता सखीव । यावत्तावत् परपरिचितेर्मत्सरेणेव सख्यः
कृत्वा किश्चिच्छलमलमपासारयंस्तां वराकीम् ॥५॥ हे मेघ ! यावत् अतुच्छा मूर्छा मां 'असजत्' आलिङ्गत् , किंविशिष्टा ? 'सद्योमाद्य०' सधः तत्कालं माद्यन् प्रबलीभवन् विषमविरहस्य आबाधः पीडा तां (तं) विस्मारयतीति, उत्प्रेक्ष्यते--असूनां प्राणानां परिभ्रंशात् च्यवनात् भीता सखीव, यथा सखी काश्चि