________________
सर्गः।] श्रीमन्मेरुतुङ्गसूरिविरचितं १३९ मृत्तिका, ततः स एष भगवान् केन 'उपमेयः' उपमानयोग्यः ?, किं कुर्वन् ? 'जगति' पृथिव्यां 'चिन्तातीत' चिन्तातिक्रान्तं रुक्मरत्नादि 'वितरन्' ददत् , रुक्मं सुवर्ण, रत्नानि पद्मरागादीनि, आदिशब्दाढुकूलाभरणहस्तितुरगादिपरिग्रहः। किविशिष्टो भगवान्? प्रोक्तैः दोषैः चिन्तामण्यादिसम्बन्धिभिः अन्यैः अप्रोक्तैरपि दोषैः परिहृतः' त्यक्तः, अतः स भगवान दानगुणेन अनुपमान एवेत्यर्थः। अत्रातिशयोक्तिसमुच्चयाद्याः ॥ २ ॥ सम्पूर्णायां शरदि शरदः प्राक्तनतौं कदाचित्
नेमिः क्षेमङ्करचरितधीर्याप्ययानाधिरूढः । शक्रेशानाधिपधृतचलच्चामरोपास्यमानः
शुद्धध्यानद्वयनत इव च्छत्रलक्ष्येक्ष्यकीर्तिः ॥३॥ देवव्यूहैः समनुचरितः सर्वतो मागधद्भि
आतेयेषु प्रमृतमतिभिः साश्रुभिदृश्यमूर्तिः । दिव्यातोये निनदति मया काननं भूषिताङ्गो गच्छन् दृष्टो रविरिव वनानीरजिन्या गवाक्षात् ॥ ४ ॥
॥ युग्मम् ।। हे मेघ ! पाणिग्रहणत्यागादनु 'शरदि' वर्षे सम्पूर्णायां 'शरदः' शरत्कालात् 'प्राक्तनौं पूर्वौं वर्षासु ऋतौ 'कदाचित् कस्मिंश्चिदवसरे मया 'गवाक्षात्' गवाक्षमारुह्य नेमिः 'काननं वनं गच्छन् दृष्टः । किंरूपो नेमिः ? 'क्षेमङ्करचरितधीः' क्षेमङ्करं कल्याणकारि यच्चरितं चरित्रं तत्र धीः बुद्धिर्यस्य, पुनः कथंभूतः ‘याप्ययानाधिरूढः' याप्ययानं शिबिकां अधिरूढः 'शक्रेशानाधिपधृतचलचामरोपास्यमानः' सौधर्मेन्द्रेशानेन्द्राभ्यां धृताभ्यां चलद्भ्यां चामराभ्यामुपास्यमानः सेव्यमानः । उत्प्रेक्ष्यते-शुद्धेन ध्यानद्वयेन धर्मध्यानशुक्लध्यानरूपेण नत इव । 'छत्रलक्ष्येक्ष्यकीर्तिः' छत्रस्य लक्ष्येण मिषेण ईक्ष्या दर्शनीया कीर्तिर्यस्य । पुनः कथंभूतः ?