________________
अथ चतुर्थः सर्गः। श्रीनेमीशः प्रतिदिनमथो कोटिमष्टौ च लक्षा
हेनः प्रातर्दददभिजनं कल्पसालायते स्म । चित्रं कम्पं करकिशलयं नाऽऽप पादप्रदेशे
लग्नाः पुण्यसितसुमनसभ्छायया चाशि विश्वम् ॥१॥ 'अथो' अनन्तरं श्रीनेमीशः प्रतिदिनं 'प्रातः' प्रभाते 'अभिजन' लोकमभिमुखीकृत्य 'हेनः' सुवर्णस्य कोटिं अष्टौ च लक्षा ददत् सन् 'कल्पसालायते स्म' कल्पवृक्ष इवाचरति स्म । 'चित्रं आश्चर्य 'करकिशलयं कम्पं न आप' दानं ददतः स्थूललक्ष्यत्वेन करो न कम्पते स्म, पादप्रदेशे 'पुण्यस्मितसुमनसः' लग्नाः पुण्यैः सुकृतैः स्मिता विकस्वराः सुमनसः साधवः, 'च' अन्यत् 'छायया' शोभया विश्वं 'आशि' व्याप्तम् । अन्यस्य कल्पवृक्षस्य किशलयं कम्पते, पुण्यानि पवित्राणि स्मितानि विकसितानि सुमनसः पुष्पाणि शिरसि लगन्ति, छायया च मितां भुवं व्याप्नोति इति कल्पवृक्षादाधिक्यम् । लक्षशब्दः स्त्रीलीबलिङ्गः । अत्रोदात्तोपमाव्यतिरेकश्लेषाः ॥१॥ चिन्तारत्नं दृषदपगतज्ञानलेशः सुरद्रुः
वर्धेनुः सा पशुगतिगता पूर्णकुम्भश्च मृत्ला । चिन्तातीतं जगति वितरन् रुक्मरत्नादि दोषैः
प्रोक्तैरन्यैरपि परिहतः सैष केनोपमेयः ॥२॥ हे मेघ ! 'चिन्तारत्न' चिन्तामणिः 'दृषत्' पाषाणः, 'सुरद्धः' कल्पवृक्षः 'अपगतज्ञानलेशः' अपगतो ज्ञानस्य लेशो यस्मात्स जड इत्यर्थः, विशिष्टज्ञानाभावादेवमुक्तम् । सा 'स्वर्धेनुः' कामधेनुः 'पशुगतिगता' स्पष्टम् , 'च' अन्यत् 'पूर्णकुम्भः' कामकुम्भः 'मृत्ला'
१ क्लीबत्वं सर्वेषां चिन्त्यम् ।