________________
सर्गः।] श्रीमन्मेरुतुङ्गसूरिविरचितं १३७ यासि, किंविशिष्टस्त्वम् ? ( विश्वविश्वाभिनन्द्यः ) स्पष्टम् । तदपि च' तथापि च 'सा इयं' अहं आगार्हस्थ्यस्थिति 'अमुष्यैव' भगवत 'आशा' इच्छां (हृदि) विदधती अस्थाम् , अयं भावः-यावत्स भगवान् गृहस्थोऽभूत् तावत्तस्याशा न मुक्ता यत् अद्याङ्गीकरिष्यति कल्ये वा, केव ? 'प्रजेव' यथा प्रजा 'आवार्षिक:' वार्षिकाणि वर्षासम्बन्धीनि ऋक्षाणि नक्षत्राणि तानि यावत्तवैवाशां विदधती तिष्ठति, यथा त्वयि खण्डवृष्टिं कृत्वा गते सति यावद्वर्षानक्षत्राणि भवन्ति तावजनस्तवाऽऽशां कुर्वन्नेव तिष्ठति, यद् अद्य वर्षिष्यति कल्ये वर्षिष्यतीति । अतिर्यकारमिति तिर्यञ्चं कृत्वा तिर्यकारम् "तिर्यचापवर्गे” ( सि० ५-४-८५) इति णम् । गार्हस्थ्यस्थितेर्यावत् आगार्हस्थ्यस्थिति "आङावधौ” (सि० २-२-७०) इति पञ्चमीप्राप्तौ “पर्यपाबहिरच् पञ्चम्या” (सि०३-१-३२) इत्यव्ययीभावः समासः। एवमावार्षिक:मिति ज्ञेयम् । अत्र दृष्टान्तोपमाद्याः ॥ ५५ ॥ इति आचार्य-श्रीशीलरत्नसूरिविरचितायां श्रीजैनमेघदूत
महाकाव्यटीकायां तृतीयः सर्गः ॥३॥