________________
१३६
जैनमेघदूतम्।
[तृतीयः
'अक्षकाः' बिभीतकाः क ? 'अमरदुः' कल्पवृक्षः क?, 'काचांशाः' काचशकलानि क ? 'दिविजमणिः' चिन्तामणिः क?, 'उडवः' नक्षत्राणि क ? 'धुरनं सूर्यः क ?, अन्ये 'भूपाः' राजानः क ? 'भुवनगुरुः' श्रीनेमिः क ?, अतो यद्भवतीभिः प्रोक्तं पुनरन्यो वरो भावीति तन्निषिद्धम् , तत अन्ये भूपा पावबिभीतककाचखण्डसामान्यग्रहतुल्याः, भगवान् मेरुकल्पद्रुचिन्तामणिसूर्यतुल्यः, अतो मम स एव ध्येय इति । दिवि जायत इति दिविजः "अनोर्जनेर्डः” (सि०५-१-१६८) डप्रत्ययः, "डियन्यस्वरादेः” (सि० २-१-११४), "धुप्रावृड्वर्षाशरत्कालात्" (सि० ३-२-२७) इति सप्तम्या अलुप् । प्रत्यजानि इति ज्ञांश धातुः प्रतिपूर्वः "संप्रतेरस्मृतौ” (सि० ३-३-६९ ) इत्यात्मनेपदम् , इ, "अड् धातोरादिस्तिन्यां चामाङा" (सि०४-४-२९) अडागमः, "यादेः” (सि० ३-४-७९) भा ना, "जा शाजनोऽत्यादौ” (सि० ४-२-१०४) ज्ञा जा, "श्चातः" (सि०४-२-९६) आकारलोपः, प्रत्यजानि इति निष्पन्नम् । अत्र यथासङ्ख्यार्थान्तरन्यासविषमाद्याः ॥ ५४॥ यद्यप्येनं परिणयमहं विश्वविश्वाभिनन्द्यो:
तिर्यकारं त्वमिव सलिलासारमाञ्चत्पतिर्मे । आगार्हस्थ्यस्थिति तदपि चावार्षिक तवैवाऽ
मुष्यैवाशां हृदि विदधती सेयमस्थां प्रजेव ॥ ५५ ॥ हे मेघ! यद्यपि 'मे' मम पतिः एनं 'परिणयमहं' पाणिग्रहणोत्सवं 'अतिर्यकारं' असमाप्तं कृत्वा 'आश्चत्' अगात् , किंरूपो भगवान् ? 'विश्वविश्वामिनन्द्यः' विश्वेन समस्तेन विश्वेन जगताऽभिनन्द्यः श्लाघ्यः। क इव ? 'त्वमिव' यथा त्वं 'सलिलासारं' सलिलस्य पानीयस्य आसारो वेगवान वृष्टिः तं अतिर्यकारं असमाप्तं कृत्वाऽञ्चसि
१ पुंस्त्वं चिन्यम्, वर्षः इति हि स्यात् ।