________________
सर्गः ।
श्रीमन्मेरुतुङ्गसूरिविरचितं
तस्य वहनस्य पुनरुद्धरणं न स्यात्तथा यदि त्वमपि अग्निपूज्यस्खजनसाक्षिकं परिणीय मुक्ताऽभविष्यत् तदा तव सत्याः पुनः पाणिग्रहणं नाघटिष्यत् , किन्तु त्वमपरिणीतैव मुक्ताऽसि अतस्तव पुनरन्यो वरो भविष्यतीत्याह- 'अर्थ' अनन्तरं तव 'राजन्यानां राजकुमाराणां ( अधिगुणतरो ) अन्यः 'विवोढा' वरो भावी, अतो नेमिनाथे वलितेऽपि अधृतिर्न कार्येति भावः । धूमध्वजश्च गुरुजनश्च धूमध्वजगुरुजनौ, तयोर अग्रेधूमध्वजगुरुजनम् “पारे मध्येऽप्रेऽन्तः षष्ठ्या वा” ( सि० ३-१-३०) इति सप्तम्या अलुप् , अव्ययीभावः समासः । राजन्यानामित्यत्र "सप्तमी चाविभागे निर्धारणे" (सि० २-३-१०९) इति षष्ठी राज्ञोऽपत्यानि राजन्याः "जातो राज्ञि (ज्ञः)" (सि० ६-१-९२) इति यप्रत्ययः । विवोढेति "वहीं प्रापणे" वह, विवहतीति विवोढा "णकतृचौ” (सि० ५-१-४८) तृचू-प्रत्ययः, "होधुट् पदान्ते” (सि०२-१-८२) ह ढ, "अधश्चतुर्थात्तथोर्धः” (सि. २-१-७९) त ध, "तवर्गस्य श्ववर्गष्टवर्गाभ्यां योगे चटवौँ” (सि० १-३-६०) ध ढ, "सहिवहरोच्चावर्णस्य” ( सि० १-३-४३) पूर्वढलोपः अकार ओ सि इत्यादि । अत्र विषमसमाद्यलङ्काराः ॥ ५३॥
क ग्रावाणः क कनकनगः काक्षकाः कामरद्वः
काचांशाः क क दिविजमणिः कोडवः क धुरत्नम् । कान्ये भूपाः क भुवनगुरुस्तस्य तद्योगिनीव
ध्यानानेष्ये समयमिति ताः प्रत्यथ प्रत्यजानि ।। ५४॥ हे मेघ ! अहम् अथ 'ताः' सखीः प्रति इति प्रत्यजानि' प्रतिज्ञातवती । इतीति किम्? अहं 'तत्' तस्मात्कारणात् योगिनीव तस्य ध्यानात् 'समयं कालं 'नेष्ये' गमयिष्यामि । तत् किम् ? हे सख्यः! क 'प्रावाणः' पाषाणाः ? क 'कनकनगः' मेरुः ?,