________________
१३४
जैनमेघदूतम् । [तृतीयः किं कृत्वा ? त ( अ )स्मिन् 'मोहाम्भोधौ' मूर्छासमुद्रे 'संनिमज्य' बुडित्वा । किंरूपाऽहम् ? 'उद्यदुःखज्वरभरवती' उद्यन्ति उदयमागच्छन्ति दुःखानि स ( तानि ) एव ज्वरभरस्तेन युक्ता, यथा कोऽपि ज्वरा” जलस्थाने मङ्क्त्वा क्षणमेकं सुखमिवानुभवति तथाऽहमपि मूर्छिता सती तदा सुखमिवानुभूतवतीत्यर्थः । तस्मात्' मोहाम्भोधिमज्जनात् (असौ) कोऽपि 'तापः' संतापः 'उदलसत्' उल्लसति स्म । किंरूपस्तापः ? 'अलं' अत्यथै 'कम्पसम्पयुक्तः' कम्पस्य सम्पदा युक्तः, 'यस्मात्' तापात् मम 'अनर्गलः' बहुलः 'विप्रलाप:' समजनि "विप्रलापो विरुद्धोक्तिः” । यथा ज्वरातस्य जलमजने क्षणिकसुखानुभवादनु महान् तापः कम्पोत्कर्षवान् उच्छलति ततो विशिष्टतरः प्रलापो बाढमरतिः संजायते तथा ममापि मूर्छानिवृत्तौ महांस्तापोऽभूत् तस्मात्तापात् संतापो विप्रलापोऽसमञ्जसभाषणं बभूवेत्यर्थः । अत्र श्लेषरूपकजात्यनुप्रासाद्याः ॥ ५२ ॥ अग्रेधूमध्वजगुरुजनं चेदुदुह्य व्यमोक्ष्यत्
तत् पाथोधौ प्रवहणमुपक्षिप्य सोऽमजयिष्यत् । राजन्यानामधिगुणतरोऽन्योऽथ भावी विवोढे
सालीनां गीरजनि च तदा मे क्षतक्षारतुल्या ॥५३॥ हे मेघ ! 'तदा' तस्मिन् प्रस्तावे इति 'आलीना' सखीनां 'गी:' वाणी में मम क्षतक्षारतुल्याऽजनि, यथा क्षते क्षारक्षेपे महदुःखं जायते तथैव सखीनां वाणी मम दुःखितायाः सत्याः पुनर्गाढदुःखकरी बभूवेत्यर्थः । इतीति किम् ? हे सखि ! 'चेत्' यदि सः अग्रेधूमध्वजगुरुजनं 'उदुह्य' परिणीय 'व्यमोक्ष्यत्' अत्यक्ष्यत् , धूमध्वजः अग्निः गुरुजनः पूज्यजनः तयोर अग्रेधूमध्वजगुरुजनम् , तत् सः 'पाथोधौ' समुद्रे प्रवहणं 'उपक्षिप्य' क्षिप्त्वा 'अमजयिष्यत्' अब्रुडयिष्यत् , एवंभावः-यथा कोऽपि वहनं समुद्रे क्षित्वा मजयति यथा