________________
सर्गः।] श्रीमन्मेरुतुङ्गसूरिविरचितं १३३ (सि० ३-३-५१) इत्यात्मनेपदम्, अद्यतनी तप्रत्यये सिचि "क्रमः" (सि० ४-४-५३) इति इनिषेधः । वर्षे देयं वार्षिक "काले कार्ये च भववत्" (सि० ५-४-९८) इकणप्रत्ययः, वृद्धिः । अत्र समोदात्तानुप्रासाः ॥ ५० ॥ प्रत्यावृत्ते परिणयभुवः प्राणितेशे निराशा
शम्पापातोपमिति पपतोत्पीडिता तत्प्रवृत्त्या । पृथ्वीपीठप्रतिहततमोन्मूलिताधारसाला
वल्लीव द्राक् सकलविगलद्भूषणालिप्रसूना ॥५१॥ हे मेघ! अहं निराशा सती शम्पापातोपमिति यथा भवति 'पपत' पतिता, शम्पा विद्युत् तस्याः पातः स च उपमितिः उपमानं यथा भवति, यथा विद्युत् पतति तथा पपातेत्यर्थः । क सति ? 'प्राणितेशे' जीवितव्यस्वामिनि श्रीनेमिनि परिणयभुवः' पाणिग्रहणभूमिकायाः 'प्रत्यावृत्ते' पश्चाद्वलिते सति । किंरूपा ? तत्प्रवृत्त्या' सा वलनरूपा प्रवृत्तिः वार्ता तया 'उत्पीडिता' प्राबल्येन पीडिता । किंरूपाऽहम् ? 'द्राक्' शीघ्रं वल्लीव 'सकलविगलद्भूषणालिप्रसूना' सकला विगलन्ती पतन्ती भूषणानामालिः श्रेणिः सैव प्रसूनानि पुष्पाणि यस्याः । किंरूपा वल्ली ? 'पृथ्वीपीठप्रतिहततमोन्मूलिताधारसाला' पृथ्वीपीठे प्रतिहततमः पातेन भृशं भग्न उन्मूलितः छिन्न आधारसाल: आधारवृक्षो यस्याः। पपतेति "णिद्वाऽन्यो णव्” (सि०४-३-५८) इति वृद्धिविकल्पाद्रूपम् । अत्रोपमानरूपकानुप्रासाः ॥ ५१ ॥ उद्यदुःखज्वरभरवती संनिमज्याहमस्मिन्
मोहाम्भोधौ सुखमिव तदा यत् पयोदान्वभूवम् । तापस्तम्सादुदलसदसौ कोऽप्यलं कम्पसम्प
द्युक्तो यस्मात्समजनि ममानर्गलो विप्रलापः ॥५२॥ 'हे पयोद !' हे मेघ ! अहं तदा यत् सुखमिव अन्वभूवम् ,
१२