________________
१३२
जैनमेघदूतम् । [तृतीयः रोदयन्तः, प्रत्युत्पन्नः समुत्पन्नः प्रतिरवः प्रतिशब्दः तस्य मिषात् रोदसी आकाशपृथिव्यौ । किंवत् ? 'मुष्टसर्वस्ववत् यथा मुष्टसर्वस्खा रुदन्ति । अत्र जात्यपहृत्युपमानुप्रासाः ॥ ४९ ॥ तेषामेव प्ररुदितवतां किङ्करनाकिचक्रो
पोपानीतं विदधदभितोऽप्यर्थिसादर्थसार्थम् । प्रातः प्रातः स्वभवनगतो डिण्डिमोद्घोषपूर्व
प्रास्तासौ वितरणमथो वार्षिकं हर्षधाम ॥ ५० ॥ 'अथो' अनन्तरं 'असौं' भगवान् प्रातः प्रातः स्वभवनगतो 'डिण्डिमोद्घोषपूर्व' डिण्डिमः पटहस्तस्य उद्घोपपूर्वकं 'वार्षिकं' सांवत्सरिकं वितरणं' दानं 'प्राक्रस्त' प्रारब्धवान् । केषां किंभूता. नाम् ? 'तेषां' यादवानां 'प्ररुदितवतामेव' रोदितुं प्रारब्धानामेव । किं कुर्वन् ? 'अभितोऽपि' समन्ततोऽपि 'अर्थसार्थ' द्रव्यसञ्चयं 'अर्थिसात्' याचकायत्तं विदधत् । किंरूपमर्थसार्थम् ? 'किङ्करनाकिचक्रोपोपानीतं' किङ्करता किङ्करवदाचरता नाकिचक्रेण देववृन्देन उप समीपे उपानीतं दौकितम् । किंरूपं वितरणम् ? 'हर्षधाम' स्पष्टम् । तेषामित्यत्र “षष्ठी वाऽनादरे” (सि० २-२-१०८) इत्यत्र (इति) पष्ठी, यथा रुदतो लोकस्य रुदति वा लोके प्रात्राजीत् । प्ररुदितवतामित्यत्र प्र-उपसर्गः प्रारम्भे “गत्यर्थाकर्मकपि. बभुजेः” (सि० ५-१-११) इत्यनेन कर्तरि क्तवत्प्रत्ययः । किङ्कर इवाचरतीति "कर्तुः किप” (सि० ३-४-२५) इति किप, "त्रन्त्यस्वरादेः” (सि० ७-४-४३) अन्त्यस्वरलोपः, "अप्रयोगीत्” (सि० १-१-३७) विप्लोपः, किङ्करतीति वर्तमाने "शत्रानशा.” (सि० ५-२-२०) शतृप्रत्यये किङ्करदिति सिद्धम् , किङ्करच तन्नाकिचनं च किङ्करन्नाकिचनं तेन । अर्थिषु आयत्तमर्थिसात् “तत्राधीने” (सि० ७-२-१३२) इति सात्प्रत्ययः । प्राक्रस्तेति "क्रमू पादविक्षेपे” प्रपूर्वः, “प्रोपादारम्भे"