________________
सर्गः।]
श्रीमन्मेरुतुङ्गसूरिविरचितं
चरयः तिर्यञ्चः तानिव, यथा तिर्यश्चो बन्धनान्मोचिताः । नर्ते - तीनां न ऋते अर्तीनाम् इति पदानि । तपस्यामित्यत्र "ऋते द्वितीया च” (सि० २-२-११४) इति ऋतेयोगे द्वितीया । अवावरी "ओण अपनयने” इति ओण धातुः, ओणतीति "मन्वनकनिविच कचित्” (सि० ५-१-१४७ ) कन् , "अहन्पञ्चमस्य किकिति" (सि० ४-१-१०७) णकार आकार "ओदौतोऽवात्” (सि० १-२-२४) इति अव "लोकात्” (सि० १-१-३) ततोऽवावन् इति सिद्धम् , “णस्वराघोषाद्वनो रश्च” (सि० २-४-४) डीप्रत्ययः, नकारस्य रकारो "लोकात्” (सि० १-१-३) इति अवावरी सिद्धम् , प्रत्ययः सि, "दीर्घड्याव्यञ्जनात्सेः” (सि. १-४-४५) सिलोपः । दामेवाचरन्ति “कर्तुः किप गर्भश्लीबहोडात्तु डित्" (सि० ३-४-२५) किप् , "नानो नोऽनह्नः" (सि० २-१-९१) नलोपः, "अप्रयोगीत्” (सि०१-१-३७) दामन्तीति वर्तमाना-शतृप्रत्ययः । अत्रोपमारूपकहेत्वलङ्काराः॥४८॥ तमिन्नेवं व्यवसितवति प्रश्लथप्रेमपाशा
नाशाश्वासच्छलपरिगलज्जीविता यादवौधाः । सोरस्ताडं सुगुरु रुरुदू रोदसी रोदयन्तः
प्रत्युत्पन्नप्रतिरवमिषान्मुष्टसर्वस्ववत्ते ॥ ४९ ॥ ते यादवौघाः 'सोरस्ताडं' यथा भवति उरसस्ताडनं कुट्टनं उरस्ताडः, सह उरस्ताडेन वर्तते इति सोरस्ताडम् , 'सुगुरु' अत्यर्थ यथा भवति 'रुरुदुः' रुदितवन्तः । क सति ? 'तस्मिन्' भगवति एवं 'व्यवसितवति' निश्चितवति सति यन्मया व्रतमेव ग्रहीतव्यम्। किंविशिष्टा यादवौघाः ? 'प्रश्नथप्रेमपाशाः' प्रश्लथः शिथिलीभूतः प्रेमपाशः स्नेहबन्धनं येषाम् , पुनः कयंभूताः ? 'नाशा०' नाशा नासिका तस्याः श्वासस्तस्य च्छलेन परिगलत् च्यवमानं जीवितं जीवितव्यं येषाम् । किं कुर्वन्तः ? 'प्रत्युत्पन्नप्रतिरवमिषात् रोदसी'