________________
.१३०
जैनमेघदूतम् ।
[तृतीयः
कारे 'वीततृष्णः' निःस्पृहः, कुलकनीति कथनेन या उत्तमस्त्रीत्वात् मूर्तेः सुखकारिणीति ज्ञापितम् । 'कौलीनाप्तेः' परापवादः कौलीनं तस्याप्तेः प्राप्तेः 'दरविरहितः' दरेण भयेन विरहितः अङ्गीकृतविवाहत्यागेऽत्रापवादान्न बिभेषि । 'संसृते.' संसारात् 'कान्दिशीकः' भीरुः । 'प्रारब्धार्थान्' विवाहमुख्यान त्यजसि, 'अप्रस्तुतान्' अप्रारब्धान वैराग्यमुख्यान भजसे । अन्यो विवेकवान् पूर्व प्रारब्धं कार्य समाप्य पश्चादन्यत् कार्यान्तरं प्रारभते । बन्धूनां समूहो बन्धुता “प्रामजनबन्धुगजसहायात्तल्” (सि० ६-२-२८) तल्प्रत्ययः, त, "आत्" (सि० २-४-१८) आप्प्रत्ययः । तृष्णगिति "बितृषच पिपासायां" तृष्यतीत्येवंशीलः "तृषिधृषि. स्वपो नजिङ्” (सि० ५-२-८०) नन्प्रत्ययः, नस्य णत्वम् । अत्र विरोधरूपकसमुच्चयपर्यायोक्तव्याजस्तुत्यनुप्रासाः । सर्वेणाप्यर्थेन भगवतो वैराग्यमेव वर्णितमिति पर्यायोक्तम् ॥ ४७ ॥ नर्तेऽर्तीनां नियतमवरावावरीमां तपस्यां
यस्योदर्कः सततसुखकृत्कृत्यमयं सतां वत् । दामत्कर्मप्रसितभविनो मोचयिष्ये चरीन् वा
नेमिः प्रत्यादिशदिति हरि भूरि निर्बन्धयन्तम् ॥४८॥ नेमिः 'हारे श्रीकृष्णं 'इति प्रत्यादिशत्' इत्युक्त्या निषिद्धवान् । किंरूपं हरिम् ? 'भूरि' अत्यर्थ 'निर्बन्धयन्तं' आग्रहं कुर्वन्तम् । इतीति किम् ? हे हरे! इमां 'तपस्यां' दीक्षां 'ऋते' विना 'अवरा' काऽपि स्त्री ('नियतं' निश्चितम्) 'अर्तीना' बाधानां 'न अवावरी' न अपनेत्री स्फेटिकेति यावत् । 'सतां' साधूनां तत् 'कृत्यं कार्य अध्ये श्लाघ्यम् , यस्य उदर्कः 'सततसुखकृत् निरन्तरसुखकारी स्यात् , "उदर्कः तद्भवं फलम्" ( अभि० चिं० २-७६ ) उत्तरकालोद्भवं फलमुदर्कः कथ्यते । अहं दाम बन्धनं तदिवाचरन्ति दामन्ति यानि कर्माणि ते प्रसिता बद्धा ये भविनः प्राणिनस्तान् 'मोचयिष्ये' कर्भबन्धनेभ्यश्छोटयिष्यामीत्यर्थः । कानिव ? 'वा' इवार्थे, 'चरीन वा'