________________
सर्गः । ]
श्रीमन्मेरुतुङ्गसूरिविरचितं
१२९
परितापयसि ? “दूङ्च् परितापे” इति दू, दवनं दवः, "युवर्णवृदृवशरणगमृद्वहः” (सि० ५ -३ - २८ ) अल्प्रत्ययः, “नामिनो गुणोऽक्किति” ( सि० ४-३ - १ ) गुणः, दवं करोषि दवयसि " णिज् बहुलं ० " ( सि० ३ - ४ - ४२ ) णिचा सिप्रत्यये रूपम् । किंविशिष्टान् आश्रितान् ? 'शुक्छखादह्यमानान्' शुक् शोकः स एव शिखा ज्वाला तया दह्यमानान् ज्वाल्यमानान् । 'यदि वा ' अथवा ब्रह्मपर्यायसक्ते पुरुषे एतत् किम् ( किमपि न ) असंभाव्यम्, ब्रह्म ब्रह्मचर्यं तस्य पर्यायः परिणामः तत्र सक्ते, अथवा ब्रह्मणो ब्राह्मणस्य पर्यायो वाडवस्तत्र सक्ते, यद्यपि ब्रह्मपर्याया द्विजाद्या बहवोऽपि सन्ति तथाऽप्यत्र सिन्धुसाधर्म्याद्दहनाधिकाराच वाडवो लभ्यते, अत्रापि सिन्धौ लोकरूढ्या वाडवो ज्वलन् वर्ण्यते, ब्रह्मशब्देनापि ब्राह्मणः कथ्यते, यतः “सूर्यत्रावाक् मागवरश्वमेधिन् मकृद्दहमिति ब्रह्मन् मा विषादी" इत्यादि, "ब्रह्मस्त्री भ्रूणगोघात ०" इत्यादि योगशास्त्रादिप्रसिद्धेः । अत्र विरोधसमसमासोक्तिरूपकानुप्रासाः । “नासं०" इत्यादि समम् ॥ ४६ ॥
कारुण्यौकश्चरिषु विघृणो बन्धुतायां सुतृष्णक मुक्तौ मूर्त्तिद्विषि कुलकनीस्वीकृतौ वीततृष्णः । कौलीनाप्तेर्दरविरहितः संसृतेः कान्दिशीकः
प्रारब्धार्थांस्त्यजसि भजसे प्रस्तुतास्तन्नमस्ते ॥ ४७ ॥ हे बन्धो ! 'तत्' तस्मात्कारणात् 'ते' तुभ्यं नमोऽस्तु, अयं नमस्कारो निन्दास्तुतिरूपः । यत् त्वं 'चरिषु' तिर्यक्षु 'कारुण्यौक : ' कारुण्यस्य करुणाया ओक: स्थानम्, 'बन्धुतायां' बन्धुसमूहे 'विघृणः' निर्दयः, मुक्तौ 'सुतृष्णक' सुष्ठु अतिशयेन तृष्णक् लुब्ध:, किंरूपायां मुक्तौ ? 'मूर्त्तिद्विषि' मूर्ति शरीरं द्वेष्टि न सहते शरीरक्षये मुक्तिभावात्, अन्या या स्त्री भर्तुः शरीरद्वेषिणि विषकन्यारूपा साऽधमा । कुलकनी कुलकन्या तस्याः स्वीकृतौ अङ्गी