________________
१२८
जैनमेघदूतम् ।
[तृतीयः
बध्यते इति चारबन्धम् “आधारात्” (सि० ५-४-६८) इति सूत्रेण णम्प्रत्ययः । अत्र जातिपरिकरोपमाद्याः ॥ ४४ ॥ यानत्याजं सपदि पितरावग्रतोऽथास्य भूत्वा
वर्षा बाष्पप्लवविगलनात पौनरुक्त्यं नयन्तौ । इत्यूचाते चिरमतमहाजात ! कस्मादकमा
दसादश्माऽऽस्फलिततटिनीपूरवत्त्वं निवृत्तः ॥४५॥ 'अर्थ' अनन्तरं पितरौ 'सपदि' तत्कालं 'यानत्याज' यानं त्यक्त्वाऽस्य अग्रतो भूत्वा इति 'ऊचाते' अवदताम् । किंकुर्वन्तौ ? बाष्पप्लवविगलनात् वर्षाः 'पौनरुत्तथं पुनरुक्तभावं 'नयन्तौ' प्रापयन्तौ, बाष्पाणि अश्रूणि तेषां प्लवः पूरः तस्य विगलनं क्षरणं तस्मात् , अप्रेऽपि वर्षासु घना वर्षन्तः सन्ति तदा पितरावपि अश्रुप्रवाहवर्षितुं लग्नौ इति वर्षाकालस्य पौनरुत्यम् । इतीति किम् ? 'हे जात!' हे पुत्र! त्वं कस्मात् हेतोः 'अकस्मात् सहसैव अस्मात् 'चिरमतमहात्' चिराभीष्टपाणिग्रहणमहोत्सवात् निवृत्तः ?, किंवत्? 'अश्माऽऽस्फलिततटिनीपूरवत्' अश्मसु पाषाणेषु आस्फलितः प्रतिहतः तटिनीपूरो नदीपूरस्तद्वत् । अत्र यानं त्यक्त्वा यानत्यानं "द्वितीयया" (सि० ५-४-७८) इति सूत्रेण णम् । अत्रातिशयोत्यनुप्रासोपमाः ॥ ४५ ॥ तौ खिन्दानौ यदुपरिवृढो वारयित्वेयजल्पद्
बन्धो सिन्धो! विनयपयसामाश्रितान् प्राक् प्रसत्तिम्। प्रापय्याथो दवयसि कुतः शुक्छिखादह्यमानान्
नासंभाव्यं किमपि यदि वा ब्रह्मपर्यायसक्ते ॥ ४६ ।। 'यदुपरिवृढः' श्रीकृष्णः 'तो' प्रभोः पितरौ 'खिन्दानी' खेदं धरन्ती वारयित्वा इति अजल्पत्-हे बन्धो! हे विनयपयसां 'सिन्धो' ! समुद्र ! त्वं आश्रितान् 'प्राक्' पूर्व 'प्रसत्ति' प्रसाद 'प्रापथ्य' लम्भयित्वा 'अथो अनन्तरं कुतः कारणात् 'दवयसि