________________
सर्गः ।
श्रीमन्मेरुतुङ्गसूरिविरचितं
१२७
शब्दादीन् प्रापयति तथा देवोऽपि सादिना हेतुना इभं पशुवाटकमानयदिति । किंविशिष्टेन चेतसा ? 'विविधगतिना' विविधा विचित्रा शब्दादिग्रहणार्थ गतिर्यस्य, सादिनाऽपि किंरूपेण ? 'विविधगतिना' विविधा गतिः ज्ञानं गजशिक्षास्वामिचित्तानुवर्तनादिरूपा वा यस्य स तेन । किविशिष्टो देवः ? 'बन्धमोक्षालङ्कर्मीणः' बन्धेभ्यो मोक्षे मोचनेऽलङ्कर्मीणः कर्मक्षमः, आत्माऽपि कर्मणां बन्धे मोक्षे चालङ्कर्मीणः समर्थः । अदःकृत्य इति “अग्रहानुपदेशेऽन्तरदः" (सि०३-१-५) इति गतिसंज्ञायां क्त्वो यप् । समजमिति “अज क्षपणे” संपूर्वः समजनं समजः “समुदोऽजः पशौ” (सि० ५-३-३०) इति अल्प्रत्ययः । नी द्विकर्मको धातुः । अत्रोदात्तोपमादयः ॥ ४३ ॥ दीनोत्पश्यान् पुरवननभश्चारिणचारवन्धं
बद्धान् बन्धैर्गलचलनयोर्वेपिनो मृत्युभीत्या । प्रीतः पृथ्वीपतिरिव जवादेष जन्तून समन्तू
नुन्मोच्य स्वं द्विरदमनयद्वेश्मनः सम्मुखत्वम् ॥४४॥ हे मेघ! 'एषः' भगवान् ‘जवात्' वेगात् जन्तून 'उन्मोच्य' छोटयित्वा स्खं 'द्विरदं हस्तिनं वेश्मनः सम्मुखत्वमनयत् । किंरूपान् पशून् ? दीनं यथा भवति उत् ऊर्ध्व पश्यन्ति विलोकयन्तीति दीनोत्पश्यास्तान , पुरवननभश्चारिणः'पुरचारिणः छागाssदयः वनचारिणो हरिणतित्तिरादयः आकाशचारिणः पक्षिणः, पुनः कथंभूतान् ? गलचलनयोः 'चारबन्धं बद्धान्' चारे गुप्तिगृहे यथा बध्यते तथा बन्धैः रज्वादिभिर्बद्धान् , मृत्युभीत्या 'वेपिनः' कम्पनशीलान् । क इव ? 'पृथ्वीपतिरिव' यथा पृथ्वीपतिः 'प्रीतः' तुष्टः सन् 'समन्तून्' सापराधान् मत्र्यादीनुन्मोचयति । उत् ऊर्ध्व पश्यन्तीति "घ्राध्मापाद्धेदृशः शः” (सि० ५-१-५८) शप्रत्यये "श्रौति.” (सि०४-२-१०८)इति पश्यरूपम् । चारे