________________
१२६
जैनमेघदूतम् ।
[तृतीयः
करुणशब्दे हेतुं' निमित्तं 'अवजिगमिषुः' ज्ञातुमिच्छुः, किंरूपेण सादिना ? 'मुकुलितकरण' योजितहस्तेन, हे नाथ! 'एषां' पशूनां 'कीनैः' मांसैः 'ते' तव विवाहे गौरवः 'शोभातिशयं' शोभाधिक्यं 'अयिता' प्राप्स्यति । किंरूपैः कीनैः ? 'शूल्यैः' शूलाकृतैः, क इव ? 'जलनिधिरिव' यथा जलनिधिः 'नादेयवाहैः' नदीसम्बन्धिप्रवाहैः शोभातिशयं प्राप्नोति । अत्र शूलया संस्कृतानि शूल्यानि “शूलोखाद्यः” (सि० ६-२-१४१) इति यप्रत्यये “अवर्णेवर्णस्य" (सि० ७-४-६८) इति आलोपे शूल्य इति रूपम् । नदीनामिमे नादेयाः "नद्यादेरेयण” (सि०६-३-२) इति एयणप्रत्यये "अवर्णेवर्णस्य” (सि० ७-४-६८) ईलोपे नादेय इति रूपम् । अत्रानुप्रासोपमाद्याः ॥ ४२ ॥ मीलनेत्रद्वयमयमदःकृत्य कर्तास्म्यथैत
निश्चित्यैवं समजमिभमानीनयत् सादिनैषाम् । श्रोतःसार्थ विविधगतिना चेतसा बन्धमोक्षा
लङ्कर्मीणः सकलविषयग्राममात्मेव देवः ॥४३॥ हे जलघर! 'अयं देवः' श्रीनेमिनाथः 'सादिना' आधोरणेन 'इभ' गजेन्द्रं 'एषां' पशूनां 'समजं' वर्ग वाटकमिति यावत् आनीनयत् । किं कृत्वा ? 'मीलनेत्रद्वयं' सङ्कचन्नयनयुगलं यथा भवति एवं निश्चित्य, यदा विचारः वहृदि क्रियते तदाऽक्षिणी निमील्य एकाग्रीभूयते इति भावः। एवमिति किम् ? अहं अदःकृत्य अथ एतत्कास्मि, राजीमती हि मुखनयनभावैर्ध्यानस्य स्थूलतां वेत्ति न तु हृद्तं भावम् , अतः पशून मोचयित्वा दीक्षां लास्यामीति निश्चयं कृत्वेत्यर्थः । क इव ? 'आत्मेव' यथा आत्मा 'चेतसा' मनसा 'श्रोतःसाथै' श्रोतसां इन्द्रियाणां सार्थ समूह 'सकलविषयप्राम' समस्तप्रायशब्दादिपदार्थराशिं आनयति प्रापयति । अयमय:-यथाऽऽत्मा मनसा हेतुभूतेनेन्द्रियाणि स्खविषयान्.