________________
सर्गः।]
श्रीमन्मेरुतुङ्गसूरिविरचितं
१२५
३-४-४२) णिच्प्रत्ययः, ह्यस्तनी-दिवप्रत्यये रूपम् । मर्त्यकीट इति रूपकत्वान्न लिङ्गव्यत्ययः । अत्र विषमविरोधानुप्रासाः॥४०॥ शान्तं पापं ! क्षिपसि ससिते क्षीरपूरेऽक्षखण्डान्
मङ्गल्यानामवसर इहामङ्गलं ते खलूक्त्वा । मामुद्वेगं सपदि दधतीमित्यवोचन वयस्या
यावत्तावत्करुणमशृणोदेष रावं पशूनाम् ॥४१॥ हे मेघ ! यावत् 'वयस्याः' सख्यो मामिति 'अवोचन्' अजल्पन् । किंरूपां माम् ? 'सपदि' तत्कालं 'उद्वेगम्' उच्चाटं दधतीम् । इतीति किम् ? हे सखि ! 'पाप' दुरितं शान्तम् , त्वं 'ससिते' सितया शर्करया सहिते 'क्षीरपूरे दुग्धपूरे 'अक्षखण्डान्' अक्षस्य विभीतकस्य खण्डान् शकलान् क्षिपसि, अयं मङ्गल्यानां 'अवसरः' प्रस्तावः, 'ते' तव 'इह' प्रस्तावे 'अमङ्गलं दुनिमित्तसूचकम् उक्त्वा 'खलु' पूर्यते, एतावताऽस्मिन्नवसरे सविषादं वचो न वाच्यमिति भावः । तावत् 'एषः' भगवान् ‘पशूनां तिरश्चां 'करुणं' दीनं 'रावं' शब्दमशृणोत् । ते खलूक्त्वा अत्र “निषेधेऽलंखल्वोः क्त्वा” (सि० ५-४-४४) क्त्वाप्रत्ययः । अत्र विषमानुप्रासौ । यावत्सख्यो मधुरवचनैरुद्वेगं स्फेटयन्ति तावद्भविष्यन्महोद्वेगकारणमेव भगवता पशूनां करुणरावोऽश्रावीति "कर्तुः क्रियाफलावाप्ति-नैवानर्थश्च यद्भवेत् ।” इति विषमविशेषः, पूर्वार्धेऽपि विषमः ॥४१॥ हेतुं तेषामवजिगमिषुः क्रन्दने सादिनाऽथो
नाथो नत्वा मुकुलितकरणेति विज्ञप्यते स । एषां कीनैरिव जलनिधिर्नाथ ! नादेयवाहैः
शूल्यैः शोभातिशयमयिता गौरवस्ते विवाहे ॥ ४२ ॥ 'अथों' अनन्तरं 'सादिना' हस्तिपकेन नत्वा 'नाथः' खामी इति विज्ञप्यते स्म, किंविशिष्टो नाथः ? 'तेषां' पशूनां 'क्रन्दने