________________
१२४
जैनमेघदूतम् । [तृतीयः 'जैवातकस्य चन्द्रस्य दर्शनेन समुद्रो वर्धते, यथाऽहं क्षणम् इति 'न अवजगे' न ज्ञानवती, किंरूपा? 'जाड्यं जडभावं 'आप्ता प्राप्ता, पुनः कथंभूता? 'तद्वीचिमालालोलञ्चताः तस्य मोहसमुद्रस्य वीचिमालाभिः कल्लोलमालाभिः लोलत् चञ्चल इवाचरत् चेतः चित्तं यस्याः सा, इतीति किम् ? अयं कः अहं का ? अहं क किमु 'विदधामि' करोमि, अतो मम मोहसमुद्रकल्लोलचञ्चलीक्रियमाणचित्तायाः सर्व विस्मृतमित्यर्थः । “गाङ् गतौ” अवपूर्वस्य परोक्षायाम् एप्रत्यये 'अवजगें'-रूपम् । अत्रानुप्रासश्लेषरूपकातिशयोक्तयः ॥ ३९ ॥ कायं देवस्त्रिभुवनपतिर्मय॑कीटः क चैषा
यद्यप्या निलयवलजं नो तथापि प्रतीये । इत्यूहे मे स्फुरदपि तदा लोचनं भानवीयं
भाग्याभावेऽमुकुलयदहो! कामराजीवराजीः॥४०॥ हे मेघ ! 'मे' मम तदा भानवीयमपि लोचनं स्फुरत् भाग्याभावे सति 'अहो' इति आश्चर्ये 'कामराजीवराजीः' कामा मनोरथास्त एव राजीवानि कमलानि तेषां राजीः श्रेणीः 'अमुकुलयत्' सङ्कोचयामास, भानवीयशब्देन दक्षिणं लोचनं कथ्यते, ततः स्त्रीणां दक्षिणलोचनस्फुरणमशुभहेतुः । अथ यद्भानोः श्रीसूर्यस्य संबन्धि लोचनं तत् कमलश्रेणीः कथं सङ्कोचयतीति विरोधः। क सति ? इति 'हे' विचारे सति, इतीति किम् ? अयं त्रिभुवनपतिदर्वेः क?, 'च' अन्यत् 'एषा' अहं 'मर्त्य कीटः क मत्र्येषु मनुष्येषु अप्रसिद्धतया कीटकल्पेत्यर्थः । यद्यप्येष: 'निलयवलजं निलयस्य आवासस्य वलजं द्वारम् 'आर्षीत् आगच्छत् तथापि 'नो प्रतीये' न प्रतीतिं प्राप्नोमि यदस्य पाणिग्रहणं मम भविष्यतीति विश्वासो न । प्रतीये इत्यत्र "ईच् गतौ" धातोर्वर्तमाना-एप्रत्यये "दिवादेः श्यः” (सि०३-४-७२) इति श्यप्रत्यये रूपम् । मुकुला इवाकरोत् अमुकुलयत् "णिज् बहुलं नानः कृगादिषु" (सि०