________________
सर्मः । श्रीमन्मेरुतुङ्गसूरिविरचितं १२३ शुक्लध्यानोपगतमिव सच्चन्दनस्याङ्गरागै
स्तत्राद्राक्षं जगदिनमहं भोगिनं योगिनं वा ॥ ३८॥ हे मेघ! अहं तत्र 'जगदिनं' जगत्स्वामिनं 'अद्राक्षं पश्यामि स्म, किंविशिष्टम् ? योगिनं 'वा' अथवा भोगिनम् , अलक्ष्यत्वादुभयावस्थे अपि भजन्तमिवेत्यर्थः । किविशिष्टं जगदिनम् ? श्रेय:सारागम' पूर्व भोगिपक्षः-श्रेयोभिः कल्याणैः सारः प्रधानः आगम आगमनं यस्य, पुनः कथंभूतम् ? 'उपयमाद्यङ्ग' उपयमं पाणिग्रहणम् इत्यादीनि अङ्गानि भोगप्रकारा यस्य स तम् , अग्र्ये प्रधाने गजेन्द्ररूपे आसने तिष्ठतीति अग्र्यासनस्थम् , नासा नासिका तस्यां न्यस्ते स्तिमिते निश्चले नयने यस्य स तम् , पुण्यः पवित्रो नेपथ्यस्य वेषस्य योगो यस्य । योगिपक्षे-श्रेयो मोक्षस्तदेव सारं यस्य ईदृग् आगमः सिद्धान्तो यस्य, पुनः किंरूपम् ? 'उपयमाद्यङ्ग' उप समीपे यमादीनि अष्टौ अङ्गानि यस्य, यम १ नियम २ आसन ३ प्राणायाम ४ प्रत्याहार ५ ध्यान ६ धारणा ७ समाधि ८ रूपाणि अष्टौ योगाङ्गानि, अग्र्ये आसने पद्मासनादौ तिष्ठतीति । 'नासान्यस्तस्तिमितनयनं' स्पष्टम् । पुण्यं धर्म एव नेपथ्यस्य वेषस्य योगो यस्य । अथोत्प्रेक्षया द्वयोरपि साम्यमाह-सञ्चन्दनस्य 'अङ्गरागै' विलेपनैः शुक्लध्यानोपगतमिव, उपगतः संयुक्तः, चन्दनमेव शुक्लध्यानमित्यर्थः । अत्र श्लेषोत्प्रेक्षाऽनुप्रासाः ॥ ३८ ॥
मोहोदन्वान्मम निशमनं तस्य जैवाहकस्य ___ व्यातन्वत्याः कथमपि तथा तत्र चैधिष्ट पुष्टः । कोऽयं काऽहं क किमु विदधामीति तद्वीचिमाला__ लोलच्चेताः क्षणमवजगे नो यथा जाड्यमाप्ता ॥ ३९ ॥
मम 'तत्र' गवाक्षे तस्य 'निशमनं विलोकनं 'व्यातन्वत्याः' कुवत्याः 'मोहोदन्वान्' मोहसमुद्रः पुष्टः (कथमपि) तथा ऐधिष्ट' अवर्धिष्ट, किंविशिष्टस्य तस्य ? 'जैवातृकस्य दीर्घायुषः, अन्यस्यापि