________________
१२२ जैनमेघदूतम् ।
[तृतीयः चक्षुःक्षेपणं पूर्व चक्षुःक्षेपम् "स्वाङ्गेनाध्रुवेण” (सि० ५-४-७९) इति णम्प्रत्ययः । अत्रोत्प्रेक्षोपमानुप्रासाः ॥ ३६॥ पेञ्जूषेषु स्वविषयसुखं भेजिवत्सूत्सुकाया
मायान्त्यमै सखि! सुखयितुं किं न चढूंषि युक्तम् । इत्यालीनां सुबहु वचनं मन्यमाना विमानं
मत्तालम्बं तदनुचरिताऽशिश्रियं देवतेव ॥ ३७॥ अहं 'तदनुचरिता' तासां सखीनामनुचरिता अनुगामिनी सती 'मत्तालम्बं' गवाक्षम् अशिश्रियम् , किं कुर्वाणा? इति 'आलीनां' सखीनां वचनं 'सुबहु' सुष्टु अतिशयेन बहु घनं मन्यमाना । इतीति किम् ? हे सखि ! 'चक्षूषि' नेत्राणि 'सुखयितुं' सुखं प्रापयितुं किं न युक्तम् ? अपि तु युक्तम् , अत्र पेषेषु च पि इत्यत्र बहुवचनं सखीबहुत्वापेक्षम् , किंविशिष्टानि चढूंषि ? 'अस्मै' स्वविषयसुखाय दर्शनलक्षणाय उत्सुकायां 'आयान्ति' प्राप्नुवन्ति, अनुत्सुक उत्सुको भवति "व्यर्थे भृशादेः स्तोः” (सि० ३-४-२९) काङ्प्रत्ययः, “दीर्घश्वीयङ्यक्क्येपु०” (सि० ४-३-१०८ ) दीर्घः आ, उत्सुकायनं उत्सुकाया "शंसिप्रत्ययात्” ( सि० ५-३-१०५ ) अप्रत्ययः, "आत्” ( सि० २-४-१८) आप्रत्ययः, अत उत्सुकायाम् औत्सुक्यमित्यर्थः । केषु सत्सु ? 'पेषेषु' कर्णेषु 'स्वविषयसुखं स्वम् आत्मीयं विषयसुखं श्रवणसुखं 'भेजिवत्सु' प्राप्तेषु सत्सु । अन्यत्रापि पडावुपविष्टायामेकेषु मिष्टान्नं खादयत्सु अन्ये बुभुक्षिता मिष्टान्नभोजनाय व्याकुला भवन्ति, एवं चक्षुषी कौँ च पङ्कावुपविष्टौ स्तः, तेषु वादित्रादिमधुरध्वनिश्रवणरूपस्वविषयसुखभोगात् कर्णेषु तुष्टेषु चभृषि भगवदर्शनरूपस्वविषयसुखं भोक्तुमत्याकुलानि जातानीत्यर्थः । केव? 'देवतेव' यथा देवता विमानं श्रयति । अत्र हेत्वनुप्रासोपमाः ॥ ३७॥ श्रेयःसारागममुपयमाद्यङ्गमच्यासनस्थं
नासान्यस्तस्तिमितनयनं पुण्यनेपथ्ययोगम् ।