________________
सर्गः ।]
श्रीमन्मेरुतुङ्गसूरिविरचितं
१२१
गौर उज्ज्वल आननस्य मुखस्य रुचिभरः श्रीभरो येषां ते गौराननरुचिभराः तैः, यथाऽन्यत्रापि विवाहादौ बाढमभिलाषयुक्तैरपि आकारणं विना न गम्यते । पुनः किंविशिष्टैः ? आतोद्यौघध्वनिनिशमनादेव ' वाजं' वेगं भजद्भिः, आतोद्यानां वादित्राणामोघः समूहः तस्य ध्वनेः शब्दस्य निशमनम् आकर्णनं तस्मात्, ( पुनः ) किंविशिष्टैः ? ' पत्युः' स्वामिन आद्योतनं दर्शनं तस्योत्का उत्कण्ठितास्तैरपि । किंविशिष्टस्य पत्युः ? मां 'उद्वोढुं' परिणेतुं 'सृतिं ' मार्ग 'उपयतः आगच्छतः कोऽर्थः ? लोकाः पतिं द्रष्टुं प्रकाममुत्कण्ठिता अपि वादित्राणि श्रुत्वैव वेगेन चलिताः, न त्वन्यथा । यद्वादिश्रवणं तदेव हूतिकर्म आकारणं जातमित्यर्थः । अत्रोक्षाहेत्वनुप्रासः || ३५ ॥
"
यावन्नान्दीरवमशृणवं स्नातभुक्तानुलिप्ता
क्लृप्ताकल्पा स्तनितमित्र ते केकिनी प्रोच्चकर्णम् । तावद्धातर्विधुमिव विभुं तं चकोरी दिदृक्षु
चक्षुः क्षेपं सुमशरशराभ्याहतेवाकुलाऽऽसम् ॥ ३६ ॥ हे जलधर ! अहं यावत् 'नान्दीरखं ' द्वादशविधमङ्गलतूर्यनिर्घोषो नान्दीत्युच्यते तस्या रवं शब्दं प्रोच्चकर्णं यथा भवति प्रकर्षेण उच्चैः कर्णौ यत्र श्रवणे तत् 'अशृणवं' शृणोमि स्म किं विशिष्टाऽहम् ? 'स्नातभुक्तानुलिप्ता ' पूर्व स्नाता पश्चाद्भुक्ता ततोऽनुलिप्ता कृतविलेपना, पुनः किंरूपा ? ' क्लृप्ताकल्पा' क्लृप्तो रचित आकल्पः पाणिग्रहणयोग्यवेषो यया सा । केव ? 'केकिनीव' यथा केकिनी प्रोकर्णे यथा भवति 'ते' तव 'स्तनितं' गर्जितं शृणोति, हे भ्रातः ! तावदहं तं विभुं 'दिदृक्षुः' द्रष्टुमिच्छती 'चक्षुः क्षेपं' चक्षुः क्षित्वा आकुलाऽऽसम् । उत्प्रेक्ष्यते - 'सुमशरशराभ्याहता इव सुमशरः कामस्तस्य शरैः बाणैरभ्याहता पीडिता इव, केव ? चकोरीव, यथा चकोरी विधुं दिदृक्षतेऽतो नान्दीरखं श्रुत्वा तं द्रष्टुमाकुला जातेत्यर्थः ।
११