________________
१२०
जैनमेघदूतम् । [तृतीयः रात्रिसम्बन्धी प्रदेशः किं दिवाऽपि स्वामिनं सेवितुमागतः इति । निशाया अयं नैशः “निशाप्रदोषात्” (सि० ६-३-८३ )इत्यण् । अत्राप/त्यतिशयोक्त्यनुप्रासाः ॥ ३३ ॥ अग्रेऽभूवन् करिहरिरथारूढवृष्णिप्रवीरा
नानायानाधिगतगतयो वीरपल्यश्च पश्चात् । उत्कोशासिपहरणभृतः पत्तयः पार्श्वदेशे • प्रत्यावृत्तेः प्रकृतिविरतस्यास्स भीत्येव मार्गात् ॥३४॥ 'करिहरिरथारूढवृष्णिप्रवीराः' अग्रेऽभूवन करिणो गजाः, हरयः तुरङ्गाः, रथाः प्रसिद्धाः, तानारूढा वृष्णयो यादवास्तेषां प्रवीराः प्रकृष्टवीराः, 'च' अन्यत् वीरपत्न्यः पश्चादभूवन् , किंरूपाः ? 'नानायानाधिगतगतयः' नानायानैः रथसुखासनादिभिः कृत्वाऽधिगता प्राप्ता गतिर्यामिस्ताः, 'पत्तयः' पदातिकाः पार्श्वदेशेऽभूवन , कथम्भूताः? 'उत्कोशासिपहरणभृतः' कोशः खड्गपिधानकं कोशादुत्क्रान्तानि पिधानवर्जितानि उत्कोशानि असिप्रहरणानि खगायुधानि बिभ्रतीति उत्कोशासिपहरणभृतः। उत्प्रेक्ष्यते-अस्य मार्गात् प्रत्यावृत्तिः पश्चाद्वलनं तस्याः 'भीत्या' भयेनेव, किंविशिष्टस्यास्य ? 'प्रकृति विरतस्य' स्वभावेन विरक्तस्य, अयमर्थः-अयं भगवान् खभावाद्विरक्तो रक्षेद्वलित्वा यातीति सर्वतो जनैर्वेष्टितः । अत्रोत्प्रेक्षानुप्रासातिशयोक्तयः ।। ३४ ॥ मामुद्बोडं मृतिमुपयतः पत्युराधोतनोकै
रातोद्यौषध्वनिनिशमनादेव वाजं भजद्भिः। पौरैौराननरुचिभरै तिकर्मान्तरेणै
तव्यं नैवाप्यधिकरुचिकैरित्युपादिश्यतेव ॥ ३५ ॥ उत्प्रेक्ष्यते-पोरैः' नागरैः इति परस्परं 'उपादिश्यतेव' अकथ्यत इव, इतीति किम् ? अस्माभिरधिकरुचिकैरपि 'हूतिकर्मान्तरेण' भाकारणकर्म विना नैव 'एतव्यं' गन्तव्यम् , अधिका रुचिः इच्छा येषां तेऽधिकरुचिकाः तैः, पुनः कथम्भूतैः ? 'गौराननरुधिभरे।'