________________
सर्गः] श्रीमन्मेरुतुङ्गसूरिविरचितं ११९ मित्रपरिजनप्रकृतिजनैः 'उचिते' योग्ये अधिकमपि प्राप्ते सति, अयमर्थः-पाणिग्रहणप्रस्तावे सर्वस्यापि सारा क्रियते, यस्य यत् आभरणपट्टदुकूलशृङ्गारादि उचितं स्यात्तद्दीयते तदा प्रभोः परिणयावसरे सोंग्यादधिकमपि शृङ्गारादिकं प्राप्तम् , गजेन्द्रस्यारोहणे पूर्वभागः कुम्भस्थलादिकः सम्मुखतया सम्भाव्यते स्म पश्चिमभागस्तु पृष्टोऽपि न, अतोऽद्य यावद् गजेन्द्रस्य पूर्वभागः प्रभुणा पाणिग्रहणोत्सवे सम्भावितत्वात्तुष्ट इवोन्नतोऽभूत् , पश्चिमभागस्तु तदा न सम्भावित इति पराभवस्मरणादिव अद्य यावत् कृशो भवतीति ।आभीक्ष्ण्येन स्मरणं पूर्व स्मारं स्मारम् , प्राकाले "ख्णम् चाभीक्ष्ण्ये” (सि० ५-४-४८) इति णम् । अत्रोत्प्रेक्षापहुत्यनुप्रासाः ॥ ३२ ॥ शीतज्योतिः ससकलकलः पुण्डरीकापदेशात्
गावो वालव्यजननिभतश्चन्द्रिका चेलदम्भात् । तारा मुक्तामणिगणमिषानिनिमेषं पिबद्भि
देवं सेवास्थित इति तदाऽतर्कि नैशः प्रदेशः ॥३३॥ 'तदा' तस्मिन् प्रस्तावे जनैः 'नैशः प्रदेशः' रात्रिसम्बन्धी प्रदेशः 'इति' अमुना प्रकारेण 'सेवास्थितः अतर्कि' विचारितः सेवायै(यां) स्थितः सेवास्थितः, अधिकारात्प्रभोरित्यर्थः । किविशिष्टैर्जनैः ? 'देवं' श्रीनेमिनाथं 'निनिमेषं' निमेषरहितं यथा भवति 'पिबद्भिः' अत्यादरेण दर्शनं पानमुच्यतेऽतः पश्यद्भिरित्यर्थः । इतीति किम् ? 'पुण्डरीकापदेशात् शीतज्योतिः' चन्द्रः पुण्डरीकं छत्रं तस्यापदेशात् मिषात् , किंविशिष्टः शीतज्योतिः ? 'ससकलकलः' सकलाभिः कलाभिः सह वर्तत इति ससकलकलः, 'वालव्यजननिभतो गावः' वालव्यजनानि चामराणि तेषां निभतः कपटात् गावः किरणानि, 'चेलदम्भात्' अत्युज्वलविभ्राजमानवस्त्रदम्भात् 'चन्द्रिका' चन्द्रज्योत्स्ना, 'मुक्तामणिगणमिषात् तारा' छत्रे आभरणेषु व्यक्ता मौक्तिकपतयः ताराः, एवं चन्द्रचन्द्रकिरणचन्द्रज्योत्सातारकाभिः कृत्वा