________________
जैनमेघदूतम् ।
[तृतीयः गत्यैवाधःकृतम् , कोऽर्थः ? अग्रेऽपि भगवता गजो गत्याऽधःकृतः गजपतेरप्यधिकलीलागतित्वात् , पुनरपि तं गजेन्द्रमारोहणेनाधःकुर्वन् अत्यर्थं पौनरुक्त्यं प्रापितवानित्यर्थः । क सति ? 'आतोद्यौघध्वनिभिः' वादित्रसमूहनादैः 'उच्चैः' अतिशयतो रोदोरन्ध्र 'अभितः' समन्तात् पूरिते सति रोदस्शब्देनाकाशपृथिव्यौ कथ्येते तयो. रन्तराले विवरे । किमर्थम् ? उत्प्रेक्ष्यते-'सुरनरवराहूतिहेतोरिव' आकाशे सुरा भुवि नरवरास्तेषामाहूतिः आकारणं तस्य हेतोरिव, ते ध्वनयो रोदोरन्ध्र स्वभावान्न पूरयन्तः सन्ति किन्तु सुरनरवराणामाकारणार्थमिति, विवाहे हि सर्वेषां शिष्टानामाकारणं क्रियत इति । प्रापिपदिति “आप्लंट व्याप्तौ” आप् प्रपूर्वः, प्राप्नुवन्तं प्रायुत णिग् , अद्यतनी-दिप्रत्ययः "णिश्रिद्रुसुकम कर्तरिड" (सि०३-४-५८) ङप्रत्ययः, "स्वरादेर्द्वितीयः” (सि०४-१-४) इति पिद्विवचनम् , “णेरनिटि" (सि० ४-३-८३ ) णिग्लोपः। अत्रोत्प्रेक्षापर्यायोक्त्यतिशयानुप्रासाः ॥ ३१ ॥ सर्वैः प्राप्तेऽप्यधिकमुचिते साधु संभावितो यत्
पूर्वो भागो भुवनविभुना स्कन्धमध्यास्य नेयम् । अद्याप्येनं ननु गजपतेः प्राभवं विप्रकार
स्मारं सारं भजति कृशतां साऽपरा खिद्यमाना॥३२॥ सा 'गजपते' गजेन्द्रस्य अपरा खिद्यमाना सती कृशतां भजति, अपराशब्देन गजस्य पश्चिमो भागः कथ्यते, स स्वभावेन तलिनो भवति, तत्र कविरुत्प्रेक्षामाह-नन्विति उत्प्रेक्ष्यते'अद्यापि' अद्य यावत् एनं 'प्राभव' प्रभोः श्रीनेमिनाथस्य सम्बन्धिनं 'विप्रकारं' पराभवं 'स्मारं स्मारं आभीक्ष्ण्येन स्मृत्वा, एनं कम् ? यत् 'भुवनविभुना' विश्वखामिना श्रीनेमिनाथेन 'स्कन्धमध्यास्य गजेन्द्रस्य स्कन्धमारुह्य पूर्वो भागः 'साधु' भव्यं यथा भवति 'सम्भावितः' सम्मानितः, 'इयं अपरा न सम्भाविता, क सति ? पाणिग्रहणोत्सवे 'सर्वैः' इति सामान्योक्या सम्बन्धिबन्धु