________________
वर्ग:। श्रीमन्मेरुतुझसूरिविरचितं मेकैकस्य बहुषु आवासेषु अतिविस्तीर्णरत्नाङ्गणेषु अन्नराशयः पर्वतप्रायाः पक्ता इति ज्ञापनार्थम् । अत्रोदात्तजात्यनुप्रासाद्याः ॥२९॥ खाद्यखाद्याभरणसिचयाधर्चया बन्धुवर्गो
नानादेशागतनरपतीनेकतः सच्चकार । वर्णोद्वर्णस्नपनवसनालेपनापीडपुण्ड्रा
ऽलङ्कारस्तं प्रभुमपि च मामन्यतोऽलश्चकार ॥ ३०॥ बन्धुवर्गः 'एकतः' एकस्मिन् पार्श्वे 'खाद्यस्वाद्याभरणसिचयाद्य चैया नानादेशागतनरपतीन् सञ्चकार' सत्करोति स्म, खाद्यानि मोदकादीनि, स्वाद्यानि लवङ्गैलापत्रपूगादीनि, आभरणानि मुक्तादीनि, सिचयाः चीनांशुकाद्याः, आदिग्रहणात् पुष्पादिपरिग्रहः तैः कृत्वाऽर्चया-पूजया । 'अन्यतः' अन्यस्मिन् पार्श्वे 'वर्णोद्वर्णस्नपनवसनालेपनापीडपुण्ड्रालङ्कारैस्तं प्रभुं मामपि चालञ्चकार' वानाऊवना इति लोके रूढौ वर्णोद्वौँ, सपनं स्नानविधापनम् , वसनानि वस्त्राणि, आलेपनं चन्दनचर्चनम् , आपीडो मुकुटः, पुण्डं तिलकम् , अलङ्काराः केयूरहारमुद्रादिकाः। एकस्मिन् पार्श्वे एकतः, अन्यस्मिन् पार्श्वे अन्यतः "आद्यादिभ्यः” (सि०७-२-८४ ) तस् प्रत्ययः। अत्र बन्धुवर्गस्य राजसमूहसत्कारवरवधूशृङ्गारवैयग्र्येण विवाहस्य गौरवं प्रतिपादितम् । अत्रातिशयोक्तिदीपकानुप्रासाः ॥ ३०॥ रोदोरन्ध्रे सुरनरवराहूतिहेतोरिवोच्चै
रातोद्यौषध्वनिभिरभितः परिते भूरितेजाः । अध्यारोहन्मदकलमिभं विश्वभौंपवायं
गत्यैवाध कृतिमतितरां प्रापिपत् पौनरुक्त्यम् ॥ ३१॥ ('भूरितेजाः' प्रभूतदीप्तिमान ) 'विश्वभर्ता' श्रीनेमिनाथ औपवाझं इभं अध्यारोहन सन् 'अतितराम् ' अत्यथै पौनरुत्थं 'प्रापिपत्' प्रापितवान् , राजा यस्योपरि चटति स पट्टगजेन्द्र औपवायः कथ्यते यत:-"राजवाहस्तूपवाह्यः” ( अभिधान० ४-२८८) इति वचनात् । किंविशिष्टम् ? मदकलं स्पष्टम् , पुनः कथंभूतम् ?