________________
जैनमेघदूतम् ।
[तृतीयः मानम्-एतन्नगरकुलानि सर्वाणि शोकरहितानि, उलूलध्वनिव्यातत्वात् , जायमानविवाहादिमङ्गलगृहवत् ॥ २८ ॥ भूभृत्प्रेक्ष्या अपि वरवधृतातयोः प्रीतिभाजोः
सौधेष्वन्धकरणतिमिरारातिरत्नाजिरेषु । सीत्यस्यात्यादरभरमिलत्पौरसद्गौरवार्थ
पुञ्जा व्रीहिप्रथनसुमनाढ्यस्य चापीपचन्त ॥ २९ ॥ वरवधूतातयोः सौधेषु अत्यादरभरमिलत्पौरसगौरवार्थ 'भूभृत्प्रेक्ष्या अपि' पर्वतवदर्शनीया अपि 'व्रीहिप्रथनसुमनाढ्यस्य' 'सीत्यस्य' धान्यस्य पुजा अपीपचन्त प्रथना मुद्गाः सुमना गोधूमा आल्या यत्र तत् व्रीहिप्रथनसुमनाढ्यं तस्य । अपीपचन्तेति जनाः पुजान पचन्ति, तान् पचतः पितरौ प्रयुजाते । द्वितीयोक्तौ पितरौ जनैः पुञ्जान पाचयतः, तावेवं विवक्षेते-नावां पुजान् पाचयावः किन्तु पुजा एव योग्यतया सुपरिकर्मिततया पाचने जनान् स्वयमेव प्रायुजन् इति। तृतीयोक्तौ कर्मकर्तरि पुखाः स्वयमेवापीपचन्तेत्यर्थः, अत्र "एकधातौ कर्मक्रिययैकाकर्मक्रिये” (सि० ३-४-८६) इति सूत्रेणात्मनेपदम् । “भूषार्थसकिरादिभ्यश्च बिक्यौ" (सि० ३-४-९३) अनेन सूत्रेण एकधातावितिसूत्रबलात्प्राप्तस्य "स्वरग्रहदृश०” (सि० ३-४-६९) इत्यादिना सूत्रेणाऽऽगतस्य बिट्प्रत्ययस्य निषेधः, ततो "णिश्रिद्रुसुकमः कर्तरि
" (सि० ३-४-५८) इति ङः, ततो द्विवचनादिना सिद्धं रूपम् । धान्यपुन आपहणी पचवाणो इति लोकप्रसिद्धोऽर्थः । किंरूपयोस्तातयोः प्रीतिभाजोः । किविशिष्टेषु सौधेषु ? 'अन्धकरण' अनन्धोऽन्धः क्रियते यैस्तानि अन्धकरणानि "कृगः खनट् करणे” (सि०५-१-१२९) इति खनट् प्रत्ययः, एवंविधानि यानि तिमिराणि तेषामरातयः शत्रवो यानि रत्नानि तेषामजिराणि अङ्गणानि येषु । मन तातयोरिति द्विवचनेऽपि सौधेष्विति बहुत्व