________________
सर्गः ।] श्रीमन्मेरुतुङ्गसूरिविरचितं क्तः प्रत्ययः "स्ताद्यशितो.” ( सि० ४-४-३२) इट् , "सेटक्तयोः” (सि० ४-३-८४ ) इति णिज्लोपः, प्रकृष्टः प्रगुणितः प्रगुणिततमः "प्रकृष्टे तमप्” (सि० ७-३-५)। औपयाम इति "यमूं उपरमे” यम् उपपूर्वः, उपयमनमुपयामः “संनिव्युपाद्यमः” (सि० ५-३-२५) इति अल्विकल्पात् “भावाकत्रोंः” (सि० ५-३-१८) घञ् प्रत्ययः, वृद्धिः, उपयामस्यायं औपयामः "तस्येदम्" (सि० ६-३-१६० ) अण् प्रत्ययः, वृद्धिः । अत्रानुप्रासदृष्टान्तरूपकसमुच्चयपरिकराः ॥ २६-२७ ॥ आमोदेनानुपरततरोऽहर्दिवं यादवीनां
विष्वग्व्यापी पुरुरथ पुरेऽभूदुलूलध्वनियंत् । मन्ये धन्येतरनरकुलेष्वप्यनुत्साहधाम्नां
शोकानां तत्प्रतिहतिजुषां तन्ननाशावकाशः ॥२८॥ 'अर्थ' अनन्तरं 'पुरे' नगरे यत् 'यादवीनां' यदुस्खीणां 'पुरुः' प्रभूतः 'उलूलध्वनिः' धवलध्वनिरभूत् । किंरूप उलूलध्वनिः ? 'आमोदेन' हर्षेण 'अहर्दिवं' दिने दिने 'अनुपरततरः' अत्यन्तमनिवृत्तः, हर्षेण यदुत्रियः कदाचिदपि धवलान् ददाना न निवर्तमानाः सन्ति इत्यर्थः । पुनः किंभूतः ? 'विष्वग्व्यापी' अतीव मधुरतारत्वात्समन्तात्प्रसरणशील इति । अहमेवं मन्ये 'तत् तस्माकारणात् 'धन्येतरनरकुलेष्वपि' सशोककुलेष्वपि शोकानामवकाशो ननाश, किंरूपाणां शोकानाम् ? 'अनुत्साहधाम्नां' दैन्यस्थानकानाम् , पुनः कथं भूतानाम् ? 'तत्प्रतिहतिजुषां' तेन उलूलध्वनिना प्रतिहतिः निराकरणं तां जुषन्तीति तत्प्रतिहतिजुषाम् , एतावताऽधमकुलेष्वपि तदा हर्ष एवास्ति न शोक इत्यर्थः । अहर्दिवमिति अहश्च दिवा च अहर्दिवम् "ऋक्सामय॑जुषधेन्वनडुहवाङ्मनस०” (सि० ७-३-९७ ) इत्यादिना समासान्तः अत्प्रत्ययः, अहर्दिवेति निपातः, पश्चात् "कालाध्वनोाप्तौ”(सि०२-२-४२) इति द्वितीया-अम् । अत्रातिशयोक्तिरनुमानमनुप्रासश्च । तत्रानु