________________
जैनमेघदूतम् ।
पङ्काशङ्कास्पद मृगमदो वर्यवैडूर्यनद्धक्षोणीखण्डोन्मुखरुचिरुहो मागधाधीतिकेकः । आसीत् पित्रा स्थपतिकृतिनाऽनेहसा सग्रहेणेवाम्भोदर्तुः प्रगुणिततमो मण्डप चौपयामः ||२७|| युग्मम् || 'औपयामः ' विवाहसंबन्धी मण्डप आसीत् । किंरूपो मण्डपः 1 ? पित्रा प्रयोजकेन कर्त्रा 'स्थपतिकृतिना' स्थपतिषु सूत्रधारेषु कृती कुशलो यस्तेन गौणकर्त्रार्थे 'प्रगुणिततमः ' अत्यर्थं सज्जीकारितः, क इव ? 'अम्भोदर्तुः' मेघर्तुरिव यथाऽम्भोदर्तुः 'अनेहसा' कालेन प्रयोजककर्तृभूतेन 'सग्रहेण' अनुकूलग्रहेण प्रयोज्यकर्तृरूपेण प्रगुयते सज्जीकार्य । अथ वर्षर्तुसामग्रीयुक्तानि मण्डपविशेषणान्युच्यन्ते - पुनः किंविशिष्टः ? ' हृद्यातोद्यध्वनितरसितः' हृद्यानां मनोज्ञानाम् आतोद्यानां वादित्राणां ध्वनितं शब्दितमेव रसितं गर्जितं यत्र सः, केकिनां मयूराणां कण्ठस्तद्वद् अभिरामा एतावता श्यामाः क्षौमोल्लोचा दुकूलचन्द्रोद्द्योतास्त एवोन्नता घना मेघास्तेषां ततिः श्रेणिर्यत्र, दर्पणा आदर्शा एव उत्कम्पाः शम्पाः विद्युतो यस्मिन् उत् प्राबल्येन कम्पो यासां ता उत्कम्पाः, रत्नश्रेणिभिः खचितं बद्धं निचितं दृढं सुवर्णसम्बन्धि मङ्गल्यदाम तोरणं तदेवोद्दीप्तं भासुरमिन्द्रास्त्रं इन्द्रधनुर्यत्र, सुष्ठु अत्यर्थमनुकृता अनुगताः पयोधारा जलधारा यै - स्तानि मुक्तावचूलानि मौक्तिकलम्बनकानि यत्र, मौक्तिकलम्बनकानि जलधरा इत्यर्थः, पङ्कस्य कर्दमस्य आशङ्काया भ्रान्तेरास्पदं स्थानं मृगमदः कस्तूरी यत्र, सौगन्ध्यापादनाय न्यस्तानि कस्तूरीखण्डान्येव कर्दमभ्रान्तिकराणि । वर्यैर्वैडूर्यैर्नद्धं बद्धं क्षोणीखण्डं तस्यो - न्मुखा ऊर्ध्वमुखा रुचयः किरणान्येव रुहा अङ्कुरा यत्र, वर्षासु हि भूमाकुरा उल्लसन्ति । मागधानामधीतिः मङ्गलशब्दच्छन्दोगी तकवित्वादिभणनं सैव केका मयूरध्वनिर्यत्र सः । प्रगुणं सज्जं क्रियते स्म “ णिज् बहुलं०" ( सि० ३ - ४ - ४२ ) णिच्प्रत्ययः, "डयन्त्यस्वरादेः” ( सि० ७–४–४३ ) अन्त्यस्वरलोपः । प्रगुण्यते स्म
११४
[ तृतीयः