________________
सर्गः। श्रीमन्मेरुतुङ्गसूरिविरचितं __ 'लाग्ने' लग्नसम्बन्धिनि दिवसे 'अभ्यासीभवति' आसन्ने जायमाने सति प्रति यदुगृहं 'दारकर्मण्यकर्माणि' विवाहकर्मसाधूनि कार्याणि आरभ्यन्त । किंरूपाणि दारकर्मण्यकर्माणि ? 'त्यक्तकृत्यान्तराणि' त्यक्तानि कृत्यान्तराणि कार्यान्तराणि येभ्यः । अत्र दृष्टान्तमाह-यथा 'वासन्ताहे' वसन्तसंबन्धिनि दिने प्रतितरु' वृक्षं वृक्षं प्रति 'प्रकामं' अत्यर्थ पल्लवानि आरभ्यन्ते, किंविशिष्टानि पल्लवानि ? 'पुष्पोत्पाद्यानि' पुष्पाणि उत्पाद्यानि उत्पादनीयानि येषां तानि, पल्लवानन्तरं हि पुष्पाणि जायन्त इति, पुनः किंरूपाणि पल्लवानि ? 'अखिलगलितप्रनपत्रान्तराणि' अखिलानि समस्तानि गलितानि प्रत्नानि पुराणानि पत्रान्तराणि अन्यपत्राणि येषु तानि । अत्र दृष्टान्तदान्तिकयोरित्थं घटना-पल्लवस्थाने कमाणि, विवाहस्थाने पुष्पम् , कृत्यान्तरस्थाने पत्रान्तराणि इति । लाने इत्यत्र लग्नस्यायं लामः "तस्येदम” (सि०६-३-१६०) अण् प्रत्ययः, "वृद्धिः स्वरेष्वा०” (सि० ७-४-१) वृद्धिः । अनभ्यासोऽभ्यासो भवति अभूततद्भावे विः, "ईश्वाववर्णस्या०" (सि० ४-३-१११) ई। दारकर्मणि साधूनि "तत्र साधौ” (सि० ७-१-१५)। वसन्तस्येदं वासन्तम् "तस्येदम्” (सि० ६-३-१६०) अण् , वृद्धिः वासन्तं च तत् अहश्च, "अह्नः” (सि० ७-३-११६) अट् प्रत्ययः, "नोऽपदस्य तद्धिते” (सि० ७-४-६१ ) अन्लोपः । प्रतितरु तरं तरं प्रति प्रतितरु "भागिनि च प्रतिपर्यनुभिः” (सि०-२-२-३७) इति द्वितीयाकारके "विभक्तिसमीप०” (३-१-३९) इत्यव्ययीभावः । अत्रानुप्रासातिशयोक्तिदृष्टान्तानुप्रासाः ॥ २५ ॥ हृद्यातोद्यध्वनितरसितः केकिकण्ठाभिराम
क्षौमोल्लोचोबतघनततिर्दर्पणोत्कम्पशम्पः । रतश्रेणीखचितनिचितस्वर्णमङ्गल्यदामो
हीतेन्द्रास्त्रः 'खनुकृतपयोधारमुक्तावचूलः ॥२६ ॥