________________
जैनमेघदूतम् ।
[तृतीयः 'समय' मिलतु, रोहिणी 'पार्वणेन्दु' पार्वणचन्द्रं समयतु, हेमी' सुवर्णसंबन्धिनी मुद्रा मणिं समयतु, किंरूपं मणिम् ? 'उरुघृणि गुरुकान्तिम् , कल्पवल्ली सुमेरुपर्वतं समयतु, 'त्रिदशतटिनी' गङ्गा 'दुग्धाम्भोधि' समुद्रं समयतु । यथैते योगाः श्लाघ्याः सन्ति तथा श्रीनेमिराजिमयोरपि योगो भवतादित्यर्थः। अत्राप्रस्तुतप्रशंसासमुच्चयतुल्ययोगितासामान्यविशेषसमासोक्त्यनुप्रासाः ॥ २३ ॥ तबद्धान्तMदमविभृतां श्रीसमुद्रः शिवा च
प्रावृष्ट्वालोदितमिव नकं त्वां सुराजा प्रजा च । तत्तत्कार्येष्वथ गणकतोऽवेत्य लग्नं विलग्नं
प्राप्तोद्वाहोद्वहमहमहःसंपदामक्रमेताम् ॥ २४ ॥ श्रीसमुद्रः शिवा च तत् 'बुद्धा' ज्ञात्वा 'अन्तः' चित्ते 'मुदं' हर्षम् 'अविभृतां अधरताम् , कमिव ? त्वामिव, यथा सुराजा प्रजा च 'प्रावृट्कालोदितं' वर्षाकालोन्नतं 'नवं' नवीनं त्वां बुद्धा मुदं बिभृतः । 'अर्थ' अनन्तरं श्रीसमुद्रः शिवा च 'तत्तत्कार्येषु विवाहसंबन्धिलोकप्रसिद्धकार्येषु 'अक्रमेता' उत्सहेते स्म, किं कृत्वा ? 'गणकतः' ज्योतिषिकात् लग्नं 'अवेय' ज्ञात्वा, किंरूपं लमम् ? 'प्राप्तोद्वाहोद्वहमहमहःसंपदा विलग्नं' प्राप्त उद्वाहो विहावो येन एवंविध उद्वहः पुत्रस्तस्य मह उत्सवस्तस्य या महःसंपदः तेजोलक्ष्म्यः तासां विलमं मध्यम् । एतावता एके उत्सवा लग्नात्पूर्व भवन्ति अपरे उत्सवा लग्नसाधनादनु भवन्ति अतो लग्नं मध्यम् । अक्रमेतामित्यत्र "क्रमोऽनुपसर्गात्” (सि०३-३-४७) "वृत्तिसर्गतायने” ( सि० ३-३-४८ ) सर्ग उत्साहस्तत्रार्थे आत्मनेपदम् । अत्रोपमानोदात्तानुप्रासाः ॥ २४ ॥ लाग्नेऽभ्यासीभवति दिवसे दारकर्मण्यकर्मा
ण्यारभ्यन्त प्रति यदुगृहं त्यक्तकृत्यान्तराणि । वासन्ताहे प्रतितरु यथा पल्लवानि प्रकामं
पुष्पोत्पाधान्यखिलगलितप्रलपत्रान्तराणि ॥२५॥