________________
सर्गः। श्रीमन्मेरुतुङ्गसूरिविरचितं एतद्वर्णश्रवणमुदितः श्रीपतिः प्रोत्पताका
दण्डैहादादिव सपुलका तत्पटान्तैः प्रनृत्ताम् । वर्णोभिः सरणिनिहितैः क्लुप्तपीनाङ्गरागां
मुक्तालेख्यैः स्फुरितहसितांद्वारिकामभ्यगच्छत् ॥२२॥ 'श्रीपतिः' कृष्णो द्वारकाम् अभ्यगच्छत् । अत्र द्वारकाया विशेषणरूपैः कृत्वा बलादपि कान्ताधर्मारोप आक्षिप्यते, अन्योऽपि यदा स्वामी स्वकान्तामभिगच्छति तदा सा शृङ्गारमुदारमारचयति, अतो विशेषणद्वारेण तद्भावमाह-किंरूपां द्वारकाम् ? 'प्रोत्पताकादण्डैः सपुलकां' प्रकृष्टा उत् ऊर्ध्वाः पताकानां केतूनां दडास्तैः सरोमाञ्चाम् , उत्प्रेक्ष्यते-'ह्रादादिव' हर्षादिव, 'तत्पटान्तैः' ध्वजपटाञ्चलैः 'प्रनृत्तां' कृतनृत्याम् , पुनः किंरूपाम् ? 'सरणिनिहितैः' मार्गन्यस्तैः 'वर्णा!भिः' कुङ्कुमाम्भोभिः 'कृप्तपीनाङ्गरागां' क्लुप्तो रचितः पीनोऽङ्गरागो यया सा ताम् , 'मुक्तालेख्यैः मौक्तिकचित्रैः 'स्फुरितहसितां' स्फुरितहास्याम् । किंरूपः श्रीपतिः ? 'एतद्वर्णश्रवणमुदितः' अहं युष्माकं सम्मतं विधास्ये एते वर्णा अक्षराणि तेषां श्रवणेन मुदितो हृष्टः । अत्रातिशयोक्तिसमासोक्त्यनुप्रासाः ॥२२॥ दुग्धं स्निग्धं समयतु सिता रोहिणी पार्वणेन्दु
हैमी मुद्रा मणिमुरुघृणिं कल्पवल्ली सुमेरुम् । दुग्धाम्भोधि त्रिदशतटिनीत्यादिभिः सामवाक्यैः
श्रीनेम्यर्थ झगिति च स मद्धीजिनं मां ययाचे ॥२३॥ हे जलधर ! 'सः' श्रीकृष्णः 'श्रीनेम्यर्थ श्रीनेमिनाथकृते 'झगिति च' तत्कालमेव 'मदीजिनं' मत्पितरं मां ययाचे, 'च' अवधारणे, याचिधातुर्द्विकर्मकः, अतो द्वारिकापुरीमागत्य तत्कालमेव श्रीनेमिपाणिग्रहणाय मपितुः पार्थेऽहं श्रीकृष्णेन प्रार्थिता । कदा. चित्प्राणेन प्रभुतया प्रार्थिता भविष्यतीत्येतदपोहायाह-कै? इत्यादिभिः सामवाक्यैः, इतीति किम् ? 'सिता' शर्करा स्निग्धं दुग्धं