________________
जैनमेघदूतम् ।
[तृती
११० क्रियते ? । विधेयेषु उरः प्रधान विधेयोरसम् "उरसोऽग्रे” (सि ७-३-११४ ) अत्प्रत्ययः । दुःखेन कृच्छ्रेण साध्यते इति दु साधं "दुःस्वीषतः कृच्छ्राकृच्छ्रार्थात् खल्” (सि०-५-३-१३९ खल्प्रत्ययः । अत्र परिकरातिशयोक्त्युदात्तानि ।। २० ॥ नेताऽप्यन्तर्मनसमसकुन्मीलितोन्मीलिताक्षः
किश्चिद्ध्यात्वा लसितदशनाभीशुकिञ्जल्ककान्तम् । दुःखादास्यं दरविकसिताम्भोजयनाबभाषे
माधुयोधःकृतमधुसुधं सम्मतं वो विधास्ये ॥२१॥ नेताऽपि 'माधुर्याधःकृतमधुसुधं' यथा भवति आबभाषे, माधुर्येण अधःकृते मधुसुधे यत्र तत् , किं कृत्वा ? 'अन्तर्मनसं' मनोऽन्तः किञ्चिद्ध्यात्वा, किं कुर्वन् ? दुःखात् 'आस्यं' मुखं 'दरविकसिताम्भोजयन्' दरविकसितं ईषद्विकसितं अम्भोज तदिव कुर्वन् । किंरूपः ? 'असकृन्मीलितोन्मीलिताक्षः' असकृत् पुनः पुनः मीलिते संकुचिते उन्मीलिते उद्घाटिते अक्षिणी येन सः। किंरूपं आस्यम् ? 'लसितदशनामीशुकिजल्ककान्तं' लसिता उल्लसिता दशनानां दन्तानां अभीशवः किरणास्त एव किजल्कः परागः तेन कान्तम् । किं बभाषे ? तदाह-अहं 'वः' युष्माकं 'सम्मतं' इष्टं विधास्ये । अयमर्थः-यदा स्वामी कृष्णान्तःपुरीकृष्णबलदेवयदुवर्गेण भृशं रुद्धो नाच्छुटत् तदा स्वामी चिरकालं नयनसंकोचविकाशाभ्यां ध्यानं कृत्वा राजीमत्या अगोचरं यदहं पश्चादपि व्रतमादास्य इत्यादिकं मनसि चिरं चिन्तयित्वा गम्भीरार्थ वचनं व्याजहारयदहं युष्माकं सम्मतं विधास्ये परमार्थतः सम्मतं व्रतमेव । मनसो. ऽन्तरन्तर्मनसं "शरदादेः” (सि०७-३-९२ ) अत्प्रत्ययः समासान्तः । सम्मीलिते उन्मीलिते अक्षिणी येन सः “सक्थ्यक्ष्णः खाङ्गे" (सि० ७-३-१२६) अत्प्रत्ययः । दरविकसिताम्भोजमिव कुर्वन् "णिज् बहुलं नानः कृगादिषु" (सि०३-४-४२)। अत्र जातिरूपकातिशयोक्त्यनुप्रासाः ॥ २१ ॥