________________
सर्गः।] श्रीमन्मेरुतुङ्गसूरिविरचितं १०९
"इतरवनिता अपि' अन्यनार्योऽपि 'च' अन्यत् इति अवोचन्त । इतीति किम् ? 'दर्शनानां' शैवसायादिशासनानाम् अन्वेषु तीर्थेषु 'अमितविमतिः' बहुविसंवादो दृश्यते, सर्वेषु शासनेषु तीर्थविषयेऽपरिमितो विवादो दृश्यते, यथा माहेश्वराणां गङ्गागयादिकं जैनानां श्रीशत्रुञ्जयरैवतादिकमित्यादि, 'तु' पुनः सर्वेषां दर्शनानां 'पितरौं' मातापितरौ अत्यन्तमान्यं तीर्थ स्फुरति, सर्वेष्वपि दर्शनेषु मातापितरौ निर्विवादं तीर्थतया मन्येते, यतः-"असार्थप्रार्थनं तीर्थमदेहद्रोहणं तपः । अनम्भःसंभवं स्वानं मातुश्चरणचर्चनम् ॥ १॥” अद्य चेत्तौ पितरौ 'मोदयसि' हर्षयसि, किं कुर्वन्तौ पितरौ ? 'त्वदनुपयमात्' तवापाणिग्रहणात् 'ताम्यन्तौ खिद्यमानौ, तत् को दोषः स्यात् ? कोऽर्थः ? यौ पितरौ सर्वदर्शनमान्यौ तौ यदि विवाहस्वीकारान्मोदयसि तदा कोऽपि दोषः स्यात् ? ! अत्रार्थान्तरन्यासविषमालङ्कारौ ॥ १९ ॥ ध्येयश्रेयः प्रणव इव यद्यद्विधेयोरसं यत् ।
दुःसाधं चाभिदधति विदः प्राणितव्यव्ययेऽपि । ओमित्युक्त्याऽप्यखिलतनुमन्मोदनं तद्विधातुं
किं कौसीधं विदुर तव तद्वर्तिनोऽन्येऽप्यवोचन् ॥२०॥ 'तद्वर्तिनः' तत्स्थानस्थायिनोऽन्येऽपि लोका इति अवोचन् , इतीति किम् ? यत् 'अखिलतनुमन्मोदनं' सकलप्राणिहर्षणं 'प्रणव इव' ॐकार इव 'ध्येयश्रेयः' ध्येयेषु श्रेयः श्रेष्ठं यथा ध्येयेषु ॐकार: शस्यते, एवं यदपि प्रतिदिनं ध्यायते यद् 'विधेयोरसं' विधेयेषु कर्तव्येषु उरसं प्रधानं यत् 'विदः' विद्वांसः 'प्राणितव्यव्ययेऽपि' जीवितव्यबिनाशेऽपि 'दुःसाधं साधयितुमशक्यं 'अभिदधति' बुवते, यदि पाणितव्यं व्यय्यते तथापि यत् कर्तुं न शक्यते, 'हे विदुर! हे दक्ष! तव तद् अखिलतनुमन्मोदनं ओमित्युक्त्यापि विधातुं कि कौसीचं किमालस्यम् , ओम् अङ्गीकृतं मया पाणिग्रहणम् इति वचनेनापि यदि सकलप्राणिनोऽपि हृष्यन्ति तदा तद्विषये किमालखं